Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 305 सौभाग्यभास्कर-बालातपासहितम् मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ २२३ ॥ मनोऽस्या: स्वतन्त्रतया तिष्ठति न तु पराधीनवृत्तिकत्वेनेति मनस्विनी । 'अस्मायामेधास्रजो विनिः । मानश्चित्तसमुन्नतिरादरणं वा प्रियापराधसूचिका चेष्टा वा प्रमाणं वा प्रमितिर्वास्यामस्तीति मानवती । महेशस्य स्त्री महेशी । उक्तञ्च देवीपुराणे महादेवात्समुत्पन्ना महद्भिर्यत आदृता । महेशस्य वधूर्यस्मान्महेशी तेन सा स्मृता ॥ इति मङ्गलरूपा आकृतिर्यस्याः ॥ २२३ ॥ विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । विश्वस्य जगतो विष्णोर्वा माता । 'सोमः पवत' इत्युपक्रम्य 'जनितोत विष्णो रिति श्रुतेः । जगद्धत्ते भूरूपेणेति जगद्धात्री । उपमाता वा पालकत्वात् । 'एष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदायेति काण्वश्रुतेः । देवीपुराणेऽपि यस्माद्धारयते लोकान् वृत्तिमेषां ददाति च । डुधाञ्धारणे धातुर्जगद्धात्री मता बुधैः ॥ इति । विशाले विस्तीर्णे अक्षिणी यस्याः । सा वाराणसीपीठाभिमानिनी । 'वाराणस्यां विशालाक्षीति पानात् । विशालाशब्दो बदरिकाश्रमवाचकोऽपि हिमवद्वृत्तित्वसाधर्येण नेपालपीठपरः । तस्य च पीठन्यासप्रकरणे नेत्रस्थाने न्यासो ब्रह्माण्डपुराणादौ विहितः । तेन विशालपीठमेवाक्षिस्थानं यस्या इति वा । विरागो वैराग्यमस्या अस्तीति विरागिणी। प्रगल्भा परमोदारा परामोदा मनोमयी ॥ २२४ ॥ __ सृष्ट्यादिकर्मसु प्रौढत्वात्प्रगल्भा । परमा च सोदारा च महती च । देशतः कालतश्च महत्त्ववतीत्यर्थः । 'उदारो दातृमहतो रित्यमरः । 'आकाशवत्सर्वगतश्च नित्य' इति श्रुतेः । परं प्रकृष्टं मोदमानन्दमासमन्ताद्रातीति वा । परमाण्युदानि जलानि यस्मिन्स परमोद: समुद्रः स च प्रकृते भवसमुद्ररूपः तस्यारा आयुधविशेषो नासिकेति ___ मनस्विनी स्वतन्त्रा । मनस्विन्यै इति || मान आदरणं अस्या अस्तीति सा । मानवत्यै इति ॥ महेशस्य स्त्री | महेश्यै इति || मङ्गलप्रदा आकृतिः स्वरूपं यस्याः सा । आकृत्यै इति ॥ २२३ ॥ विश्वस्य जगतो माता । मात्रे इति । जगतो धात्री पालनकर्वी । धात्र्यै इति ॥ विशालान्यक्षीणि यस्याः सा | अक्ष्य इति ॥ विरागः अस्या अस्तीति सा । विरागिण्यै इति ॥ प्रगल्भा समर्था । प्रगल्भायै इति ॥ परमा उत्कृष्टा उदारदानशीला । उदारायै इति ॥ पर उत्कृष्ट आमोदः सन्तोषो यस्याः सा । आमोदायै इति ॥ मनोमयी मन प्रधाना । मनोमय्यै इति ॥ २२४.॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392