Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
किश्चित्
प्रास्ताविकम् ॥४॥
कार्यकारणभावेनाऽवगन्तव्यः, विनासामायिकादिषडावश्यकं न भवति सम्यगदर्शनादिगुणाऽवाप्तिः । यया हेतुभूतया क्रियया साबपयोगविरतिनिदर्शनचारित्ररूपस्य समस्य समभावस्य वा आयोलाभश्चत्तदेव सामायिकम् , मोक्षमार्गदेषकतया उपकारित्वात् चतुर्विंशतिजिनेश्वराणां नामप्राहं वेदं गुणोत्कीर्तनं तत् चतुर्विशतिस्तवः, मुक्तिमार्गाराधनपराणामन्येषाश्च भन्यात्मनां मोक्षावाप्तिविषयकसाहायकर्तृणां सुविहितसूरिप्रमुखगुरुवाणां गुणवत्ता या प्रतिपत्तिः तद्वन्दनकम् । स्वभावदशात्मकस्वस्थानात् विभावदशारूपपरस्थाने अत्मनो गमनं यजातं तस्मात्परस्थानात् पुनः आत्मनः स्वस्थाने यदाक्रमणं तत्प्रतिक्रमणावश्यकम्। निजास्मगुणरमणताविषयकस्थैर्यार्थ यः कायादिममत्वस्यागरूपो ध्यानविशेषः स कायोत्सर्गः, आत्मगुणेभ्यो विचलन न पुनः स्यात्तदर्थ भशनपानादित्यानागरूपा विविधा या प्रतिज्ञा विधीयते तत्प्रत्यास्यानम्।।
सम्यगदर्शनादिरत्नत्रयीमाप्त्यर्थमेव निखिलावश्यकप्रवृत्तिरतपवादी सामायिकावश्यकम् । परमेष्ठिरूपाणां देवगुरूणां प्रतिपसि विना नाविर्भवतिसम्यगदर्शनादिगुणसमुदयः समभावो वा अतः सामायिकानन्तरं क्रमेण चतुर्विशतिस्तयो चन्दनकच। पूर्वोक्तावश्य कत्रितयसद्भावेऽपि यावत् प्रमादस्तावदवश्यंभाविनी स्खलनाऽतिक्रमाऽतिचाररूपा, तच्छुमद्धयर्थमनन्तरं प्रतिक्रमणम्। जातेऽपि प्रतिक्रमणेऽवशिष्टदोषरूपवणचिकित्सार्थ ध्यानं विधेयं ततः कायोत्सर्गः, पवं सत्यपि न अवाप्ताऽऽस्मगुणसमुदयाद्विचलनं भवेत्तदर्थ | पष्ठ प्रत्याख्यानाऽऽवश्यकम्। उक्तश्च पूज्यवर्यैः
सावजजोगविरइ उकित्तण गुणवओ अ पडिवत्ति । खलियस्स निंदणा वण-तिगिच्छा गुणधारणा चेव ॥१॥
ॐॐॐ5%
समणसुआदि विषयक ॥४॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120