Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 90
________________ पाक्षिकसूत्रं ॥ ६२ ॥ Jain Education International 'काङ्क्षन्ति तत्, अर्द्धत्यक्तं वा गृहतः ६ पानेपणा अता एव, नवरं चतुर्थ्या नानात्वम्, तत्र ह्यायाम सौवीरादीनां निर्लेपत्वं ज्ञेयम्, उत्ति सुचकत्वादवग्रहप्रतिमाः, वसत्यभिग्रहा इत्यर्थः ॥ तथाहि-- जहाचिंतय ? सपरिग्रह २ । सउग्गह ३ परुग्गहे ४ संगुवगहे ५ || सागरिसंथारुग्गह ६ । अहसंघडिउग्गहा ७ सत्त ॥ १ ॥ तत्र पूर्वमेव विचिन्त्यैवंभूत उपाथयो मया प्राह्यो नान्यथाभूत इति तमेव याचित्वा गृहतः, प्रथमा १ । अहमन्येषां कृतेऽवग्रहं यात्रिप्ये, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति द्वितीया, आधा सामान्येन, इयं तु गच्छान्तर्गतानाम् साम्भोगि कानामसाम्भोगिकानाम् वोकविहारिणा यतस्तेऽन्योऽन्यार्थ याचन्ते इति २ । अन्यार्थमवग्रहं याचिष्ये, अन्यावगृही स्थास्याभीति, पपा asहालंदि(तु यथालन्दि ) कानां यतस्ते सूत्राविशेषमाचार्यादभिकाङ्क्षते आचार्यार्थ तं याचन्त इति, ३ । अहमन्येषां कृतेऽवग्रहं न याचिष्येऽम्यावगृहीते तु वत्स्यामि इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पार्थ परिकर्म कुर्वतां स्यात् ४ । अहमात्मकृतेऽवग्रहं याचिष्ये, नाऽन्येषां कृते इयं तु जिनकल्पिकस्य ५ । यदीयमवग्रहं ग्रहीष्ये तदीयमेव चेत् कटकादिसंस्तारकं ग्रहीष्यामि इतरथोत्कटुको वा उपविशे वा रजनीं गमिष्यामीत्येवापि जिनकल्पिकादेरिति ६ । सप्तम्यपि पूर्वोक्तव, नवरं यथावस्तृतमेव शिलादिकं ग्रहीष्ये नेतरदिति ७ ॥ 'सत्तिकयत्ति' सप्तैककाः, अनुदेशकतया एकसरत्वेनैकका अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे (द्वितीय) चूडारूपास्ते च समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते तेषामेकोऽपि सप्तकक इति व्यपदिश्यते तथैव नामत्वात् तत्राद्यः स्थानः सप्तैककः १ । नषेधिकीतैककः, नैषेधि की स्वाध्यायभूमिः २। उच्चारप्रश्रवणविधिसप्तैककः ३ । शब्दसककः ४ रूप ० ५ । १ For Private & Personal Use Only +++24: 5 अवचूरिसमलंकृतम् ॥ ६२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120