Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 53
________________ पाक्षिकसूत्रं ॥ २५ ॥ Jain Education Inter " जिण अजिण तित्थऽतित्था । गिहिअन्नसलिंगधीनरनपुंसा ॥ पत्तेअ सयंबुद्धा । बुद्धबोहिय सिद्धणिक्काय ॥ १ ॥" व्याख्या- सिद्धशब्दः *प्रत्येकं योज्यते, तीर्थकर सिद्धा जिनाः ऋषभादिवत्, अतीर्थसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् एवं तीर्थातीर्थसिद्धा उक्ताः, गृहलिंगसिद्धा मरुदेव्याद्याः, अन्यलिंगसिद्धाः वरकपरिव्राजिकादिलिंगसिद्धाः, यदा अन्यलिंगिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते, तत्समयं च कालं कुर्वति, तदैवं दृष्टव्यम्, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति, ततः साधुलिंगमेव प्रतिपद्यन्ते, स्वलिंगसिद्धाः, द्रव्यलिंगं प्रतीत्य ये रजोहरणादिधारणैः सिद्धाः प्रत्येकबुद्धवर्जिताः केचित्स्त्रीलिंगसिद्धाः, केचित्पुरुषलिंगसिद्धाः केचित्तीर्थकर प्रत्येकबुद्धरहिता नपुंसकलिंग सिद्धाः प्रतीत्येकं किञ्चिद्वृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धाः परमार्थमिति एवंविधाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः, एवं स्वयमात्मना बुद्धाः सन्तो ये सिद्धास्ते स्वयंसम्बुद्धसिद्धाः, प्रत्येकबुद्धस्वयंबुद्धानां च बोध्युपधिश्रुतलिंगकृतो विशेषस्थाहि, प्रत्येकबुद्धानां वृषभादिवाह्यनिमित्तेनैव बोधिः, स्वयंबुद्धानां तं विनापि बोधिः, प्रत्येकबुद्धानां जघन्यतो रजोहरणमुखपोतिकारूपो द्विविध उपधिः, उत्कृष्टनः पुनश्चलपट्टमात्रककल्पत्रिकवर्जो नवविधः, स्वयं बुद्धानां तु पात्रादिर्द्वादशविधः, यदुक्त - "पत्तं पत्ताबंधो । पायवणं पायकेसरीआ | पडलाइ रत्ताणां च । गुच्छओपायनिजोगो ॥ १ ॥ तिन्नेव य पच्छागा । रयहरणं चेव होइ मुहपत्ति ।। एसो दुवालसविहो । उवहिं जिन कप्पिआणंतु ॥ २ ॥ प्रत्येकबुद्धानां पूर्वाधीतश्रुतं नियमाद्भवति, जघन्येनैकादशांगानि, उत्कृष्टतो भिन्नदशपूर्वाणीति । स्वयंबुद्धानां पुनस्तत्संभवति वा न वा, यदि पूर्वाधीतं श्रुतं नास्ति, ततो नियमाद्गुरुपार्श्वे स्युर्गच्छे व विहरन्ति, प्रत्येकबुद्धानां लिंगं देवतैव दत्ते, लिंगर्जिता वा भवंति अथ तं स्यात्ततो लिंग देवता दत्ते, गुरुसमीपे वा तत्भतिपर्यंते, इच्छया योग्यतया चकाकिनो विहरंति, गच्छे वा वसंति। बुद्धबोधिता आचार्यादिबोधिताः सन्तो ये सिध्धाः, एकैकसमये एकैकजीवसिद्धिगमनादेकसिध्धाः । एकसमये द्वयादीनामष्ट * सर्वत्र For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ २५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120