Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
MHAROSAROSA
किश्चित् प्रास्ताविकम्
आत्मा अनादिः । तस्य संसारोऽनादिः, संसारकारणं मिथ्यात्वादिकर्मयोगोऽप्यनादिः, पवश्चाऽऽरमनोऽशुद्धपर्यायोऽप्यनादिः । आत्मनोऽशुद्धपर्यायाणामनेकविधत्वम् । यथा मिथ्यात्वमोहनीयोदयजन्योऽतत्त्वे तत्त्वबुद्धिरूपः तत्त्वे वाऽतत्त्वबुद्धिस्वरूपो विपरीतज्ञानोपयोगो निकष्टोऽशुद्धपर्यायः, निखिलानामन्येषामशुद्धपर्यायाणामयमेव हेतु, चारित्रमोहोदयजन्याः क्रोधोपयोग-मानोपयोग-लोभोपयोगपर्याया अशुद्धपर्यायाः, नोकषायसंक्षकवेदोदयजन्या विषयवासनापरिगतोपयोगा अपि अशुद्धपर्यायाः। ज्ञानावरण-दर्शनावरणाऽन्तरायकर्मणामुदयेन यद्यपि अनन्तज्ञानदर्शन-वीर्यगुणेष्ववश्यं प्रतिघातो भवति तथापि न तेषां घाति-कर्मत्रयाणामुदयेन उपयोगमालिन्य-भवति, उपशान्तमोह-क्षीणमोहगुणस्थानकयोन जाता कैवल्यावाप्तिः, छमस्थत्वमेव विद्यते तथापि तदुभयगुणस्थानवतिनां जीवानां घातित्रयावरणस्य सत्वेऽपि शुद्धोपयोग एव वर्णितोऽवगततत्त्वः केवलिजिनादिभिः। यावत्कालं मोहोदयः तावत्कालमुपयोगमालिन्यम् । एतदुपयोगमालिन्यं द्विविध, प्रमत्तसंगत-मप्रमत्तसंगतं च, अप्रमत्तसंगतमुपयोगमालिन्य न संसारकारणम् , उपयोगमालिन्यहेतुभूतमोहनीयोदयस्य विधातार्थमेव पुरुषार्थस्य तत्र विद्यमानत्वात् । अत एव च प्रतिक्रमणाद्यावश्यकक्रियाणां तेषु गुणस्थानकेष्वनावश्यकत्त्वम् , उक्तश्च रत्नशेखरसूरिपादैः
इत्येतस्मिन् गुणस्थाने, नो सन्त्यावश्यकानि षट् ।
सन्ततध्यानसद्योगात् , शुद्धिः स्वाभाविकी यतः ॥१॥ प्रमत्तसंगतञ्चोपयोगमालिन्यं त्रिविधं, मिथ्यात्व-अविरति-मोहोदयाधीनस्वरूपप्रमाद-संगतं प्रथम मिथ्यादृष्टः, अविरतिमोहोदयाधीन-स्वरूप-प्रमादसंगतं द्वितीयमविरतसम्यग्दृष्टेः देशविरतस्य च, मोहोदयाधीनस्वरूपप्रमादसंगतं च तृतीयं प्रमत्त
-
समणसुआदि विषयकं ॥२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120