Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
धर्मपरीक्षा
कथानकम् ॥ १ ॥
REESEX881
लब्धिसागरसूरीन्द्राः प्रसभास्ते भवन्तु मे । यत्प्रसतेरहं किञ्चिदिह जानामि बालिशः कियन्तः सन्त एवात्राथना सन्तु सहस्रशः । कस्यचिद्रूषणोच्चारे निष्णाता नैव किन्तु वे अथ चेद्दषणोद्धारे सर्वे ते सन्ति शिक्षिताः, तर्हि ते न प्रतीक्षन्ते यावद् याचां वरोद्यमाः दोषाभावं यथाऽऽदित्याः स्वयं कर्त्तार एव ते । सतामभ्यर्थये किन्तु कृत्वाऽञ्जलिमिमं सममू जैनधर्मस्थापकस्य ग्रन्थस्यास्य पदे पदे । दृष्टिर्देया विधायोच्चैः कृपां भोः ! साधवोऽभितः विश्वे समस्तवस्तूनां परीक्षा मदिता बुधैः । तां विना कोऽपि भूमिस्पृक् न संगृह्णाति किञ्चन विशेषतस्तथा धर्मः परीक्ष्यः सुपरीक्ष्यकैः । यतः शुद्धो गृहीतः सन्मोक्षसौरव्याय जायते तस्यावदातधर्मस्य श्रीगुरूणां सकाशतः । परीक्षा नान्यतः प्राप्या यथा शास्त्रे निवेदितम् इह लोकविधीन् कुरुते स्वयं जनो नतु गुरुं विना धर्मम् । अश्वो हि तृणानत्ति स्वयं घृतं पाय्यतेऽन्येन अवगत्य जिनेन्द्रोक्तमतो धर्मस्य लक्षणम् । सम्यक् तनिश्चयः कार्यों नरैरात्महितार्थिभिः यथा स वायुवेगेन मनोवेगेन सद्धिया । परीक्षाऽकारि धर्मस्य केवलज्ञानिवाक्यतः तथाहि - जंबूद्वीपाभिघो द्वीपः सुवृत्तः सुभगाकृतिः । लक्षयोजनमानेन विस्तृतो वेष्टितोऽब्धिना तत्रास्ति मरतक्षेत्रं सर्वमध्ये समुभतिम् । सिद्धाचलादिसत्तीर्थसम्पदाऽमिनिभर्ति यत्
11 3 11
॥ ४ ॥
॥ ५ ॥ ॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥ ॥ १० ॥
॥ ११ ॥ ॥ १२ ॥
॥ १३ ॥
॥
१४ ॥
॥ १५ ॥
प्रथम
परिच्छेदः
॥ १ ॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 132