Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
धर्मपरीक्षा
कथानकम् ॥ ४९ ॥
निशम्येति च तत्रैत्य तेनोक्तौ पितरौ ततः । कौमारदोषविच्छेदो युवाभ्यां क्रियतां मम ताभ्यामुक्तः स ते वत्स ! कोsपि दत्ते न कन्यकाम् । आवां निराकरिष्यावो जायाश्रद्धां तथापि ते ate भूरिणा ताभ्यां गृहीत्वा दुर्गताङ्गजाम् । कृत्वा महामहं योग्यं ततोऽसौ परिणायितः दधिमुखोऽवादि स्वल्पकालव्यतिक्रमे । आवयोर्द्रविणं नास्ति पालय त्वं निजां प्रियाम् समाकर्ण्यति तेनोक्ता स्ववधूरे हि वल्लभे । व्रजावः कापि जीवावः पितृभ्यां प्रहितो गृहात् निजं सेक्तारमारोप्य साध्वी शिरसि सा ततः । बभ्राम पृथिवीपीठे दर्शयन्ती गृहे गृहे पालयन्तीमिमां वीक्ष्य विकलं तादृशं पतिम् । कृपया नित्यशो भक्ति प्रवरां चक्रिरे प्रजाः तथा पतिव्रता पूजां प्राप्नुवन्ती पुरे पुरे । विशालां सान्यदा प्राप्ता भूरिराजन्यराजिताम् सैकस्मिन् सदने मुत्वा सिककं पतिसंयुतम् । ययौ प्रार्थयितुं भोज्यं सोद्यमा निगमान्तरे द्यूतकारक योज महायुद्धे मिथस्तदा । एकस्यैकः शिरः छेदं चक्रे खड्गेन रोषतः तथा दक्षता दृष्ट्वा शीर्षमानीय सत्वरम् । सिक्का भिजकान्तस्य मुक्तं तत्र कबंधके ततो दधिमुखस्तत्र लग्न निःसंधिमस्तकः । बभूव भुवि विख्यातोऽपरः सर्वाग सुन्दरः इदं तथ्यमतथ्यं वा मैत्रावरुणभाषितम् । निगद्यतां मम क्षिप्रं पर्यालोच्य स्वचेतसि तं जगुर्याज्ञिकाः खेटं केनेदं क्रियतेऽन्यथा । प्राच्यामभ्युदितो भास्वान् छाद्यमानो न जायते
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
॥ ४८ ॥
॥ ४९ ॥ ॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥ ॥ ५३ ॥
॥ ५४ ॥
।। ५५ ।।
॥ ५६ ।।
॥ ५७ ॥
चतुर्दशः
परिच्छेदः
॥ ४९ ॥

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132