Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 113
________________ 3888888XXXXXXXXXXX ततो देवाधिदेवेन क्लेशराशिविनाशिनी । हिताय सर्वजन्तूनां प्रारब्धा धर्मदेशना ॥ ६३ ॥ सव्वा कला धम्मकला जिणाइ सव्वा कहा घम्मकहा जिणाइ । सव्वं बलं धम्मबलं जिणाइ सव्वं मुहं मुत्तिमुई जिणाइ ॥ ६४॥ आकण्येवं सकर्णेन तेन नत्वा जगद्विभुः । सद्धर्मस्य स्वरूपं किमिति पृष्टो जिनोऽवद व श्रीधर्मपुरुषस्यास्य दानमौदारिकं वपुः । शीलं वस्त्रं तपरतेजो भावो जीवस्तदीशिता युक्तं तदुक सव्यक्तं श्रुत्वा ध्यात्वेति मानसे । घों दानमयो मोक्षसौख्यसंपत्तिहेतवे साधुभिः सार्धमानीतो भक्ताद्यर्थ नराधिपः । सादरं दरमुक्तानामाकारणं तदाऽकरोत् (युग्मम्) ॥ ६८॥ ततो जगौच तं भगवानकल्पं वतिनां नृप! । राजपिंडादिदोषेण दूषितानमिदं सदा ॥ ६९ ॥ सौधर्मेन्द्रोऽथ तं दूनं ज्ञात्वा भरतचक्रिणम् । निर्व्याजं व्याजहारेति युक्तयुक्तिविचक्षणः ॥ ७०॥ मा विषादं कुरु स्वान्ते धर्मबुद्धे ! घराधर ! । क्षेत्राणि सुपवित्राणि सदा सर्वज्ञशासने ॥ ७१ ॥ यथा-जिणभवणवियपुच्छय संघसरूवे सुसत्तखित्तेसु । ववियं धणं पि जायइ सिवफलपमहो अणतगुणं ॥७२॥ तत्र साधर्मिका येऽपि गृहारंभपराङ्मुखाः । संवेगादिगुणोपेतास्तेषां भक्ति सदा कुरु ॥ ७३ ॥ निशम्येति वचस्तस्य पूर्वानीतसवस्तुमिः । साधर्मिकस्य वात्सल्यमकरोद्भरताधिपः ॥ ७४॥ भावाचारविचाराढ्य चतुरध्यायबन्धुरम् । श्राद्धप्रज्ञप्तिसद्ग्रन्थं सर्वोक्तं पठन्ति ते ॥ ७५॥ XXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132