Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
अथ षष्ठदशः परिच्छेदः
अथो ज्ञानी मुनिः प्रोचे मनोवेगं शुभाशयम् । सोऽयं पृष्टस्त्वया धर्म यस्यारोपयितुं ह्यहम् मनोवेगखगोsवादीत् मस्तकस्थकरः स्वयम् । एवं मे तदसौ साधो ! प्राप्तो व्रतजिघृक्षया मयैत्य कुसुमद्रंगं दृष्टान्तैर्विविधै रयात् । सम्यक्त्वं लंभितः साधो ! मोक्षसौख्य प्रवेशकम् यच्चायं वान्तमिथ्यात्वो व्रताभरणभूषितः । सांप्रतं जायते भव्यस्तथा साधो ! विधीयताम् रातो मुनिरभाषिष्ट देवात्मगुरुसाक्षिकम् । सम्यक्त्वंपूर्वकं वत्स ! गृहाणोपासकवतम् साक्षीकृत्य व्रतग्राही व्यभिचारं न गच्छति । अतो विज्ञनरैः ग्राह्यं ब्रतादिकं ससाक्षिकम् जीवेषु रोप्यमाणं नो सम्यक्त्वेन विना व्रतम् । सफलं जायते शस्य केदारेष्विव वारिणा विनाऽमृतं यथाऽऽहारो विहारो जिनपं विना । नायकेन विना हारो शोभां न श्रयति क्षितौ सम्यक्त्तत्वेन विना धर्मो न शर्मोच्चयकृत्तथा । अतः प्रमादं संत्यज्य पालनीयमिदं त्वया अथ च सिद्धान्ते प्रोक्तमस्ति दंसणसंपन्नयाएणं मंते जीवे किं जणयति दंसणसंपद्मयाएणं भवमिच्छत्तत्थेयणं करे परं न विन्मायति परं न विभातिमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संज्जोएमाणे सम्मं भावे माणे विहरति दोषैः शंकादिभिर्मुक्तं संवेगाद्यैर्गुणैर्युतम् । दर्शनं दधतः पूतम् फलवज्जायते व्रतम्
॥ १० ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥
|| 6 ||
॥ ८ ॥
॥ ९ ॥

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132