SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठदशः परिच्छेदः अथो ज्ञानी मुनिः प्रोचे मनोवेगं शुभाशयम् । सोऽयं पृष्टस्त्वया धर्म यस्यारोपयितुं ह्यहम् मनोवेगखगोsवादीत् मस्तकस्थकरः स्वयम् । एवं मे तदसौ साधो ! प्राप्तो व्रतजिघृक्षया मयैत्य कुसुमद्रंगं दृष्टान्तैर्विविधै रयात् । सम्यक्त्वं लंभितः साधो ! मोक्षसौख्य प्रवेशकम् यच्चायं वान्तमिथ्यात्वो व्रताभरणभूषितः । सांप्रतं जायते भव्यस्तथा साधो ! विधीयताम् रातो मुनिरभाषिष्ट देवात्मगुरुसाक्षिकम् । सम्यक्त्वंपूर्वकं वत्स ! गृहाणोपासकवतम् साक्षीकृत्य व्रतग्राही व्यभिचारं न गच्छति । अतो विज्ञनरैः ग्राह्यं ब्रतादिकं ससाक्षिकम् जीवेषु रोप्यमाणं नो सम्यक्त्वेन विना व्रतम् । सफलं जायते शस्य केदारेष्विव वारिणा विनाऽमृतं यथाऽऽहारो विहारो जिनपं विना । नायकेन विना हारो शोभां न श्रयति क्षितौ सम्यक्त्तत्वेन विना धर्मो न शर्मोच्चयकृत्तथा । अतः प्रमादं संत्यज्य पालनीयमिदं त्वया अथ च सिद्धान्ते प्रोक्तमस्ति दंसणसंपन्नयाएणं मंते जीवे किं जणयति दंसणसंपद्मयाएणं भवमिच्छत्तत्थेयणं करे परं न विन्मायति परं न विभातिमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संज्जोएमाणे सम्मं भावे माणे विहरति दोषैः शंकादिभिर्मुक्तं संवेगाद्यैर्गुणैर्युतम् । दर्शनं दधतः पूतम् फलवज्जायते व्रतम् ॥ १० ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ || 6 || ॥ ८ ॥ ॥ ९ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy