________________
धर्मपरीक्षा
कथानकम् ॥ ५७ ॥
BEEKE*********88
दुरन्तमिध्यात्वतमो विमोहितो गतः समन्तात् परवाक्ययामिनीम् ।
विबोधितो दुःखचयापहारिभिः जिनार्कवा क्यामिरुज्ज्लैस्त्वया
विहाय मार्ग जिनदेवभाषितं निराकुलं मुक्तिपुरप्रवेशनम् ।
चिरं विलमोऽध्वनि दुष्टदर्शिते महाभये व निवासकारके
मया त्रिवाग्राहि जिनेशशासनं संत्यज्य मिध्यात्वविषं महामते ! ।
तथा विधेहि व्रतरत्नभूषितस्तव प्रसादेन यथास्मिसांप्रतम्
॥१००॥
॥१०१॥
॥१०२॥
॥१०३॥
१०४ ॥
१०५ ॥
विध्वस्त मिथ्यात्वविषस्य भारतीमाकर्ण्य मित्रस्य मुदं स आप्तवान् ।
जनस्य सिद्धे हि मनीषिते हिते न कस्ये तोषः सहसा प्रवर्त्तते खात्वा सुमित्रं जिनवाक्यवासितं प्रचक्रमे गन्तुमनन्यमानसः । असो पुरीमुज्जयिनीं जयान्वितां प्रयोजने कः सुहृदां प्रमाद्यति ॥ विमानमारुह्य मनोहरं ततः तमोपहैराभरणैरलंकृतो । आगच्छतामुज्जयिनी वनं नवं संमोदतस्तौ लघु धार्मिकौ बरौ अन्तर्वैरिजयं प्ररूपितनयं संक्लप्तजीवामयम् । ध्यानप्राग्रहरं सुधोपमगिरं विज्ञानरत्नाकरम् ॥ १०६ ॥ त्यात्यन्तमदं स्वभाव विशदं सद्ब्रह्मतोयहदम् । नत्वा तत्र मुनि मुदा गगनगौ तौ तस्थतुर्भक्तितः ॥ १०७ ॥ इति धर्मपरीक्षायां श्रीवृषभ जिन वृत्तपवन वेगप्रतिबोधसंबंधवर्णनो नाम : पंचदशः परिच्छेदः
॥
पञ्चयाः
परिच्छेदः
॥ ५७ ॥