Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री धर्मपरीक्षा
कथानकम्
॥ ५१ ॥
SEEEEEEEEEE.
शकटोपवन स्थेऽसौ वटवृक्षतलेऽमले । कृताष्टमतपः स्वामी केवलज्ञानमाप्तवान् सर्वदर्शी स सर्वज्ञो बभूव भुवनप्रभुः । त्रिकालविषयं जानन् लोकालोकप्रकाशकः सौधर्मेन्द्रादिभिर्देवैः मरतेन महीभुजा । तत्रैत्य केवलज्ञानोत्सवोऽकारि प्रभोर्मुदा प्रभुणा देशना दत्ता तदांगिबोधहेतवे । तां निशम्य ययुः सर्वे स्वस्वस्थानं प्रहर्षिताः ततो रवीन्दुजी मृतोपमः सर्वसमः प्रभुः । विषयेषु विहारं च विश्वोषकृतये व्यधात् स्थाने स्थाने प्रधाने च चतुर्विधदिवौकसः । चक्रुः समवसरणं शरणं भविकाङ्गिनाम् देवदुन्दुभयो नेदुः शीर्षे छत्रत्रयं दधुः । चामरे चामराः पार्श्वे पद्मानि पुरतस्तथा इत्यादिप्रातिहार्य श्री विहरञ्जिननायकः । अन्यदा तत्र भूयोऽप्याययौ साधुपरिच्छदः उद्यानपालका गत्वा शशंसुर्भरताधिपम् । सार्द्धद्वादशकल्याण कोटीस्वेभ्यो ददौ सकः ततश्च विविधाहारादिपूर्णबकनांसि सः । लात्वा तत्रागतः सार्व दंदितुं सपरिच्छदः जिनदृौ तदा मोदाद्भरतो भरताधिपः । पंचधाभिगमं दक्षसुगमं कृतवान् स्वयम् यथा- सचितदव्वमुष्झण १ सचित्तमणुज्झणं २ मणेगतम् ३ इगसाडिउत्तरासंग ४ मंजलीसरसिजिण दिट्ठे पंच विहाभिगमो अहवा मुश्चंति रायचिह्नाहं । खग्गं १ छत्तो२ वाहण ३ मउडं ४ चमरे व पंचमए तिस्रः प्रदक्षिणा दत्ता नत्वादिमं जगद्गुरुम् । स श्रद्धालुरिलापालः स्थाने तस्थौ यथोचिते
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥ ॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
चतुर्दशः
परिच्छेदः
॥ ५१ ॥

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132