Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 29
________________ 88888888888888 न तथ्यं साक्षिरहितं वक्तव्यं हि क्षितिस्पृशा । अतथ्यमपि मन्यन्ते लोकास्तत्साक्षिकान्वितम् सता तथ्य तथ्यं वा वाच्यं जनप्रतीतिकम् । अन्यथा वार्यते केन भवन्ती यातना परा बालिशा न प्रपद्यन्ते तथ्यमेवं सतोदितम् । यतस्ततो न वक्तव्यं तन्मध्ये हितमीप्सुभिः ईक्षितं विश्रुतं ज्ञातमाकर्णितं प्रपद्यते । न परं मनुजो यस्मान वक्तव्यं वचस्ततः ममापि जल्पतो यस्मान्मध्येऽस्मिन्नविचारिणाम् । दूषणं जायते तादृग् मया नातो निगद्यते विलोकयति यः कश्चित् पूर्वापरमुदंतकम् । कथ्यते तस्य पुरतो नान्यस्य हि पटीयसा इत्युदित्वा स्थिते खेटे तं बभाण द्विजोत्तमः । मा गादीर्भद्र नास्त्यत्र शालायां को विचारकः आभीरसदृशानस्मान् मा स्थास्त्वं नृपुङ्गव । अरिष्टसन्निभाः सन्ति कलहंसा न कुत्रचित् अत्र न्यायविदः सर्वे सत्यासत्यविचारणाः । सन्त्यत्र वाडवाः शंका मा कुरुत्वं वद स्फुटम् यद्युक्त्या घटते वाक्यं कोविदैर्यच्च बुद्धयते । निःशको वद तद्भद्र गृहीष्यामो विचार्य च विप्रणोक्तो मनोवेगो जिनपादाब्जषट्पदः । वदति स्म ततो युक्त्या मित्रप्रबोध हेतवे रक्तो द्विशे मत्तो मुँढो व्युद्ग्राही पित्तदूषितः । भूतैः क्षीर्रा गुरुः, ज्ञेयादेंनो बालिशा दश युस्मासु यद्यमी सन्ति पूर्वोक्तदोषदूषिताः । अहं बिभेमि भो विप्रास्तदा वदन् यथातथम् मनुष्याणां तिरथां च परमेतद्विमेदकम् । विभेदयन्ति ये सर्व प्रथमास्ते परे नहि ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ 11 30 11 1132 11 ॥ ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132