Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
दुर्भिक्षं चेद्वादशाब्दीं पदेऽत्रापत्स्यते परम् । तदा क्षुन्प्रियमाणोऽहं किंकरिष्ये विनिर्गतः चितयित्वेति गर्मेऽहं वर्षाणि द्वादश स्थित । बुक्षाभयभीतः सन् क प्राणी नावतिष्ठति आययुस्तापसा भूयो दुर्भिक्षस्य व्यतिक्रमे । मातामहस्य सदनं मयि गर्भेऽपि तस्थुपि प्रणम्य तापसा पृष्टास्तेन तेऽवादिषुस्ततः । व्यतीतं भद्र ! दुर्भिक्षं प्रस्थिता विषयं निजम् मय्याकर्ण्य वचस्तेषां गर्भतो निर्गते सति । जननी मेऽजनिष्टाऽऽशु यातनाऽऽक्रान्तविग्रहा निर्गत्य तुंदतो मातुः पतिताया इलातले । स्वर्णवर्णवरेण्योऽहं पपात शुभमस्मनि प्रोत्थाय पात्रमादाय प्रसूरुक्ता मया रयात् । भोजनं यच्छ मेंडवाई नितरामशनायितः ततो मातामहेनैकः पृष्टः कोऽपि तपोधनः । युष्माभिर्जातमात्रः किं ददृशे कुत्र मार्गयन तेनोक्तमयमुत्पातो धीमन् निर्धार्यतां ध्रुवम् । संपत्स्यतेऽन्यथा तुभ्यं परापायपरम्परा तदनूक्तोंऽवयाऽहं रे गच्छान्तकनिकेतनम् । ततो जातो ममात्यन्तं सैष दास्यति तेऽदनम् डिम्भोऽहं भस्मतो देहमवगुंठ्यविनिर्ययौ । तापसस्तापसैः सार्धं मुंडयित्वा शिरोऽजनि स्थितोऽहं तापसस्थाने तप्यमानस्तपोऽनिशम् । न कार्य शुममारभ्य प्रमाद्यन्ति हि पण्डिताः भई शुममतिः स्मृत्वैकदा सानेकपत्तनम् । अचिन्तयमिदं मातोद्वाहार्हाऽन्यविशा सह निजोदन्तं निवेद्यैवं पृष्टास्तपोधना मया । तेऽब्रुवन्मात्र दोषोऽस्ति परेणास्या विवाहने
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥ ॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥
३४ ॥
॥ ३५ ॥

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132