Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 63
________________ द्वितीये वासरे तत्र मयाsकारि विबुद्धिना । ग्रामेयकवधूवृन्दं निरीक्ष्य लघुभोजनम् तृतीये दिवसे जातः प्रबलो जठरानलः । लज्जापरिगतस्याहो मूढस्य मम दुःसहः शयनाधस्तनोद्देशे मयाऽलोकि ततो निशि । वीक्षितं भाजनं तत्र शालेयैस्तन्दुलैर्भृतम् मया वीक्ष्य गृहद्वारं पूरितं तंदुलैर्मुखम् । प्रचंडा नलवतस्य मर्यादा हि कुतस्तनी यतः - आदौ रूपविनाशिनी कृशकरी कामार्थविध्वंसिनी । तेजोमंदकरी तपःक्षयकरी धर्मस्य निर्मूलनी पुत्र भ्रातृ कलत्र मेदनकरी लज्जाकुलच्छेदनी । सा मां बाधति सर्वदोषजननी पाणापहारी क्षुधा तदा तत्र प्रविष्टा सा कुलीना मम वल्लभा । लज्जमानमनास्तस्याः फुल्लगल्लाननः स्थितः निरीक्ष्योत्फुल्लगल्लं मां विकाशीकृतलोचनम् । सा मातुः सूचयामास शंकमाना महाव्यथाम् श्रश्रूरागत्य मां वीक्ष्य जीवितव्ये च शंकिता । ततो रोदितुमारेमे मदीयप्रियया समम् रुदन्तीं तां प्रियां श्रुत्वा सकला ग्रामयोषितः । मिलित्वाऽवादिषुः व्याधीन कल्पयत्यः सहस्रशः एका जगाद दोषोऽयं दुर्देवानां विनिश्चयम् । अन्यथा जायते कस्मादाकस्माकीदृशी व्यथा अभाणीदपरो दोषः पूर्वजानामयं स्फुटम् । नरस्यास्येदृशी पीडा परथा जायते कथम् ? अपरा लष्मिकं दोषं पित्तभूतं च काचन । सांनिपातिकमपरावातीयमपराऽगदत् प्रदुष्टानामयं दोषः शाकिनीनां पसऽवदत् । यतोऽस्त्राऽऽआकस्मिकी भूता विद्यते तीत्रवेदना ॥ ८६ ॥ ॥ ८७ ॥ ॥ ८८ ॥ ॥ ८९ ॥ ॥ ९० ॥ ॥ ९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ।। ९५ ।। ॥ ९६ ॥ ॥ ९७ ॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132