SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ द्वितीये वासरे तत्र मयाsकारि विबुद्धिना । ग्रामेयकवधूवृन्दं निरीक्ष्य लघुभोजनम् तृतीये दिवसे जातः प्रबलो जठरानलः । लज्जापरिगतस्याहो मूढस्य मम दुःसहः शयनाधस्तनोद्देशे मयाऽलोकि ततो निशि । वीक्षितं भाजनं तत्र शालेयैस्तन्दुलैर्भृतम् मया वीक्ष्य गृहद्वारं पूरितं तंदुलैर्मुखम् । प्रचंडा नलवतस्य मर्यादा हि कुतस्तनी यतः - आदौ रूपविनाशिनी कृशकरी कामार्थविध्वंसिनी । तेजोमंदकरी तपःक्षयकरी धर्मस्य निर्मूलनी पुत्र भ्रातृ कलत्र मेदनकरी लज्जाकुलच्छेदनी । सा मां बाधति सर्वदोषजननी पाणापहारी क्षुधा तदा तत्र प्रविष्टा सा कुलीना मम वल्लभा । लज्जमानमनास्तस्याः फुल्लगल्लाननः स्थितः निरीक्ष्योत्फुल्लगल्लं मां विकाशीकृतलोचनम् । सा मातुः सूचयामास शंकमाना महाव्यथाम् श्रश्रूरागत्य मां वीक्ष्य जीवितव्ये च शंकिता । ततो रोदितुमारेमे मदीयप्रियया समम् रुदन्तीं तां प्रियां श्रुत्वा सकला ग्रामयोषितः । मिलित्वाऽवादिषुः व्याधीन कल्पयत्यः सहस्रशः एका जगाद दोषोऽयं दुर्देवानां विनिश्चयम् । अन्यथा जायते कस्मादाकस्माकीदृशी व्यथा अभाणीदपरो दोषः पूर्वजानामयं स्फुटम् । नरस्यास्येदृशी पीडा परथा जायते कथम् ? अपरा लष्मिकं दोषं पित्तभूतं च काचन । सांनिपातिकमपरावातीयमपराऽगदत् प्रदुष्टानामयं दोषः शाकिनीनां पसऽवदत् । यतोऽस्त्राऽऽआकस्मिकी भूता विद्यते तीत्रवेदना ॥ ८६ ॥ ॥ ८७ ॥ ॥ ८८ ॥ ॥ ८९ ॥ ॥ ९० ॥ ॥ ९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ।। ९५ ।। ॥ ९६ ॥ ॥ ९७ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy