________________
૧૭૬
धर्मा प्रse भाग-3/अध्याय-८/ सूत्र-4
अवतरशिs:
ततश्च कालेन - अवतरशिक्षार्थ :
અને ત્યારપછી ચરમજન્મમાં વિશુદ્ધ અપ્રતિપાત ચારિત્રની પ્રાપ્તિ પછી, કાલથી કેટલોક કાળ તે ચારિત્રના પાલન પછી, શું પ્રાપ્ત કરે છે? તે સૂત્રમાં બતાવે છે –
सूत्र :
अपूर्वकरणम्, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभः ।।५/४८६।। सूत्रार्थ :
અપૂર્વકરણ, ક્ષપકશ્રેણી, મોહસાગરનો ઉત્તાર=મોહરૂપી સમુદ્રમાંથી બહાર (પાર પામ્યા), કેવળજ્ઞાનની પ્રાપ્તિ, પરમસુખનો લાભ ચરમજન્મમાં તે મહાત્મા પ્રાપ્ત કરે છે એમ અન્વય છે. I14/४८६|| टीs:
'अपूर्वाणां' स्थितिघातरसघातगुणश्रेणिगुणसंक्रमाऽपूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां 'करणं' यत्र तदपूर्वकरणम् अष्टमगुणस्थानकम्, ततश्च 'क्षपकस्य' घातिकर्मप्रकृतिक्षयकारिणो यतेः 'श्रेणिः' मोहनीयादिप्रकृतिक्षयक्रमरूपा संपद्यते, क्षपकश्रेणिक्रमश्चायम्-इह परिपक्वसम्यग्दर्शनादिगुणो जीवश्चरमदेहवर्ती अविरतदेशविरतप्रमत्ताप्रमत्तसंयतान्यतरगुणस्थानकस्थः प्रवृद्धतीव्रशुद्धध्यानाधीनमानसः क्षपकश्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमतः चतरोऽनन्तानुबन्धिनः क्रोधादीन युगपत् क्षपयितुमारभते, (?) ततः सावशेषेष्वेतेषु मिथ्यात्वं क्षपयितुमुपक्रमते, ततस्तदवशेषे मिथ्यात्वे च क्षीणे सम्यग्मिथ्यात्वं सम्यक्त्वं च क्रमेणोच्छिनत्ति, तदनन्तरमेवाबद्धायुष्कोऽनिवृत्तिकरणं नाम सकलमोहापोहैकसहं नवमगणस्थानकमध्यारोहति, (?) तत्र च तथैव प्रतिक्षणं विशुद्ध्यमानः कियत्स्वपि संख्यातेषु भागेषु गतेष्वष्टौ कषायान् अप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्ञितान् क्रोधादीनेव क्षपयितुमारभते, क्षीयमाणेषु च तेष्वेताः षोडश प्रकृतीरध्यवसायविशेषात् निद्रानिद्रा १ प्रचलाप्रचला २ स्त्यानगृद्धि ३ नरकगति ४ नरकानुपूर्वी ५ तिर्यग्गति ६ तिर्यगानुपूर्वी ७ एकेन्द्रिय ८ द्वीन्द्रिय ९ त्रीन्द्रिय १० चतुरिन्द्रियजातिनाम ११ आतपनाम १२ उद्योतनाम १३ स्थावरनाम १४ साधारणनाम १५ सूक्ष्मनाम १६ लक्षणाः क्षपयति,