________________
दशवैकालिकं-टीकात्रिकयुतम् (ति.) तथा [से भिक्खू वा...इत्यादि] प्राग्वत् । (सु.) से भिक्खू वा इत्यादि यावत् जागरमाणे व त्ति पूर्ववदेव,
से उदगं वा, ओसं वा, हिमं वा, महियं वा, करगं वा, हरतणुगं वा, सुद्धोदगं वा, उदउल्लं वा कायं, उदउल्लं वा वत्थं, ससिणिद्धं वा कायं, ससिणिद्धं वा वत्थं ।
(ति.) उदकम्-'शिरापानीयम् । अवश्यायः-त्रेह' । हिमम्-स्त्यानोदकम् । महिकाधूमरी। करकः-कठिनोदकरूपः । हरतनुः-भुवमुद्भिद्य दूर्वादेरग्रे भवति । शुद्धोदकम्गगनोदकम् । उदकाढूँ वा कायं, उदकाढूँ वा वस्त्रम्-उदकाता च गलबिन्दुता | सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रम्-स्नेहनं स्निग्धं "भावे निष्ठा" [ ] सह स्निग्धेन वर्तत इति सस्निग्धं, सस्नेहता चेह बिन्दुरहितता ।
(स.) तथा पुनः पूर्ववत् स किं न कुर्यादित्याह-से इति-स भिक्षुरुदकं वा शिरापानीयम्, अवश्यायं वा स्नेहं, हिमं वा स्त्यानोदकं, मिहिकां वा धूमरिकां, करकां वा कठिनोदकरूपां, हरतनुकं वा भुवमुद्भिद्य तृणाग्रादिस्थितं. शुद्धोदकमाकाशोदकं, उदकाइँ वा कायमुदका वा वस्त्रं, उदकार्द्रता च गलबिन्दुरूपा ग्राह्या. सस्निग्धं वा कायं सह स्निग्धेन स्नेहेन वर्तते यः स सस्निग्धः, स चासौ कायश्च तमेवंविधं कायं, एवं सस्निग्धं वा वस्त्रं, सस्निग्धता चेह बिन्दुरहिता ज्ञेया. __ (सु.) तथा से उदगं वा'इत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्र-उदकं-शिरापानीयं, अवश्यायःत्रेहः, हिमं-स्त्यानोदकं, महिका धूमरिका, करकः-कठिनोदकरूपः, हरतनुर्भुवमुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकं अन्तरिक्षोदकं, तथा-उदकाद्रं वा कायं उदका वा वस्त्रं, उदकार्द्रता चेह गलबिन्दुतुषाराद्यनन्तरोदितोदकभेदसन्मिश्रता, तथा सस्निग्धं वा कायं, सस्निग्धं वा वस्त्रं, अत्र स्नेहनं स्निग्धमिति, सह स्निग्धेन वर्त्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहि[त]ता, अनन्तरोदितोदकभेदसन्मिश्रता, ___ नामुसिज्जा, न संफुसिज्जा, नावीलिज्जा, न पवीलिज्जा, न अक्खोडिज्जा, न पक्खोडिज्जा, नायाविज्जा, न पयाविज्जा, अन्नं नामुसाविज्जा, न संफुसाविज्जा,
१. ठारणुपाणी १० टि. ।। २. गूर्जरभाषायां त्रेह = भेज इत्यर्थः - भगवद् गोमण्डल - [ई. स. २००७, पृ. ४२५२]