Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 359
________________ ३४४ दशवैकालिकं-टीकात्रिकयुतम् (ति.) किञ्च-असकृत्-सर्वदा । व्युत्सृष्टत्यक्तदेह-व्युत्सृष्टः-प्रतिबन्धाभावेन, त्यक्तः तद्विभूषाद्यकरणेन देहो येन स तथा । आक्रुष्टो वा-दुर्वचनैः । हतो वायष्टयादिना। लूषितो वा-तस्कराद्यैरुपध्यपहरणेन, श्व-शृगाल-व्याधैः शरीरापहारेण । पृथ्वीसमः-सर्वंसहो मुनिर्भवति । अनिदानः-भाविफलाशंसारहितः । अकुतूहल:नटाद्यालोकनादिषु। यः स भिक्षुः ।।१०.१३।। (स.) पुनराह-असई 'इति-यो मुनिः पृथिवीसमो भवेत्, पृथिवीतत् सर्वंसह, स्यात्, न पुना रागादिना पीड्यते, किम्भूतो मुनिः ? असकृद्ध्युत्सृष्टत्यक्तदेहः, असकृत्सर्वदा व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो वि भूषाया अकरणेन देहः शरीरं येन स तथाविधः, पुनराक्रुष्टो वा जकारादिना, हतो वा दण्डादिना, लूषितो वा खड़गादिना, भक्षितो वा शृगालादिना. किम्भूतो मुनिः ? अनिदानो भाविफलस्य वाञ्छारहितः. पुनरकुतूहलश्च नटादिषु य एवम्भूतः स भिक्षुः. ।।१०.१३।। (सु.) असइं...'इति, न सकृदसकृत् सर्वदैवेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहःव्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो-विभूषाकरणेन, देहः-शरीरं येन स तथाविधः, आक्रुष्टो वा ज(य)कारादिना, हतो वा दण्डादिना, लूषितो वा खड़गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः-सर्वंसहो मुनिर्भवति, न च रागादिना पीड्यते, तथाऽनिदानोभाविफलाऽऽशंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः, स भिक्षुरिति ।।१०.१३ ।। अभिभूय काएण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महाभयं, तवे रए सामणिए जे, स भिक्खू ।।१०.१४।। (ति.) तथा-अभिभूय-पराजित्य, अधिसह्य । परीषहान्-क्षुधादीन् । कायेन-न मनो-वाग्भ्यामेव। समुद्धरति-उत्तारयति । आत्मानम् । जातिपथात्-संसारमार्गात् । विदित्वा । जातिमरणं महाभयम् । तपसि रतः । श्रामण्ये-श्रमणसम्बन्धिनि । यः स भिक्षुः ।।१०.१४।। (स.) भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूअ 'इति-यो मुंनिः कायेन शरीरेण न मनो-वचनाभ्यामेव, सिद्धान्तनीत्या परीषहानभिभूय पराजित्याऽऽत्मानं जातिपथात् १. महम्मयं इत्यन्त्र मुद्रितः पाठः |

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416