Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 381
________________ ३६६ दशवैकालिकं-टीकात्रिकयुतम् व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कर्दमावमग्नो वनगज इव स पश्चात् परितप्यते'हा ! हा ! किं मयेदं असमञ्जसमनुष्ठितमिति ।।चू.१.८ ।। अज्जं याहं गणी हुंतो, भावियप्पा बहुसुओ | जइ हं रमंतो परियाए, सामण्णे जिणदेसिए ।।चू.१.९।। (ति.) कश्चन सचेतनत(न)रः परमेवं परितप्यते इत्याह-अद्ययावद् । अहं गणीआचार्यः । अभविष्यम् भावितात्मा-संवेगरङ्गरङ्गितात्मकः । बहुश्रुतः-सम्पूर्णागमः | यद्यहम् । अरमिष्ये । पर्याये श्रामण्ये-श्रमणसम्बन्धिनि । जिनदेशिते ।।चू.१.९ ।। (स.) कश्चित सचेतनो नर एवं च परितप्यत इत्याह-अज्ज' इति-अहमद्य तावदस्मिन् दिवसे गणी स्यामाचार्यो भवेयं, यदि पर्याये प्रव्रज्यारूपेऽरमिष्यं रतिमकरिष्यम, किंविशिष्टे पर्याये ? श्रामण्ये श्रमणसम्बन्धिनि, पुनः किम्भूते ? जिनदेशिते तीर्थकरप्ररूपिते, न शाक्यादिरूपे, किम्भूतोऽहं ? भावितात्मा, प्रशस्तयोगभावनाभिर्भावित आत्मा यस्य सः, पुनः किम्भूतः ? बहुश्रुतः, उभयलोकहितबह्वागमयुक्त इति. ||चू.१.९।। . (सु.) कश्चित् सचेतनो नर एवं च परितप्यत इत्याह-अज्ज इति अद्य तावदहअद्य-अस्मिन् दिवसेऽहमित्यात्मनिर्देशे, गणी स्यां-आचार्यो भवेयं, भावितात्माप्रशस्तआगम(योग)भावनाभिः, बहुश्रुत-उभयलोकहित-बहवागमयुक्तः, यदि किं स्यात्? इत्याह-यदि अहमरमिष्यं-रतिमकरिष्यं, पर्याये-प्रव्रज्यारूपे, सोऽनेकभेद इत्याह-श्रामण्येश्रमणानां सम्बन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-जिनदेशिते-निर्ग्रन्थसम्बन्धिनीति ||चू.१.९।। देवलोयसमाणो य, परियाओ महेसिणं । रयाणमरयाणं तु, महानरय॑सालिसो ||चू.१.१०।। (ति.) अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-(देवलोय...इति) स्पष्टः | नवरम् । अरतानाम्-विषयाभिलाषिणाम् । पुनर्महानरकसदृशः-मानसदुःखातिरेकात् ||चू.१.१०।। (स.) अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देव...इति-महर्षीणां सुसाधूनां पर्याये संयमे रतानामासक्तानां, पर्यायो देवलोकसमानः, अयमर्थः-यथा देवलोके देवा १. 'सारिसो' इत्यपि मुद्रितमन्यत्र ।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416