Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
दशवैकालिकं- टीकात्रिकयुतम्
३८८
किं शकनीयम्-वयोऽवस्थानरूपं, वैयावृत्यादि । न समाचरामि ।। ।। चू.२.१२ ।।
(स.) एवं विशुद्धविविक्तचर्यावतोऽसीदनगुणोपायमाह जो इति यः साधुर्भवेत् स पूर्वरात्रा -ऽपररात्रकाले रात्रौ प्रथम- चरमप्रहरयोरित्यर्थः, सम्प्रेक्षते सूत्रोपयोगनीत्यात्मानं कर्मभूतमात्मनैव करणभूतेन प्रेक्षते, कथं प्रेक्षत ? - इत्याह- किं मे कृतमिति, छान्दसिकत्वात् तृतीयार्थे षष्ठी, 'किं मया कृतं शक्तेरनुरूपं तपश्चरणादियोगस्य, किञ्च मम कृत्यशेषं कर्तव्याच्छेषमुचितं, पुनः किञ्च शक्यं वयोऽवस्थानुरूपं वैयावृत्त्याद्यहं न समाचरामीति, तस्याकरणे हि तत्कालनाश इति । । चू. २.१२ ।।
(सु.) एवं च विविक्तचर्यावतोऽसीदनगुणोपायमाह - जो 'इति यः साधुः पूर्वरात्राऽपररात्रकाले, रात्रौ प्रथम- चरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्या, आत्मानं कर्मभूतं, आत्मनैव करणभूतेन, कथम् ? - इत्याह- किं मे कृतमिति, छान्दसत्वात् तृतीयार्थे षष्ठी, किं मया कृतं ? शक्त्यनुरूपं तपश्चरणादियोगस्य किं च मम कृत्यशेषंकर्त्तव्यशेषं उचितं ?, किं शक्यं - वयोऽवस्थानुरूपं वैयावृत्त्यादि न समाचरामि - न करोमि, तदकरणे हि तत्कालं नाशयति । चू.२.१२ । ।
किं मे परो पासइ किंच अप्पा, किं वाहं खलियं न विवज्जयामि । इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ।। चू.२.१३ ।।
( ति.) तथा - किञ्च किं मम स्खलितं परः स्वपक्ष- परपक्षलक्षणः पश्यति । किं वा आत्मा क्वचित्-मनाक् संवेगापन्नः । किं वा ऽहम् ओघत एव स्खलितं न विवर्जयामि । इत्येवं सम्यगनुपश्यन् । अनागतम् - आगामिकाले । यः प्रतिबन्धं संयमविषयं न करोति ।।चू.२.१३।।
(स.) किं' इति तथा किं मम स्खलितं परः स्वपक्ष- परपक्षलक्षणः पश्यति ? किं वात्मा क्वचिन्मनाक् संवेगं प्राप्तः ? किं वाहमोघत एव स्खलितं न विवर्जयामि' इत्येवं सम्यगनुपश्यन्ननेनैव प्रकारेण स्खलितं ज्ञात्वागमोक्तेन विधिना भूयः पश्यन्ननागतं न प्रतिबन्धं कुर्यात् साधुः, य आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति. । । चू.२.१३ ।।
f
(सु.) तथा - किं मे' इति किं मम [ स्खलितं] परः- स्वपक्ष-परपक्षलक्षणः पश्यति, किंवाऽऽत्मा क्वचिन्मनाक् संवेगापन्नः ?, किं वाऽहं ओघत एव स्खलितं न विवर्जयामि' इत्येवं सम्यगनुपश्यन्ननेनैव प्रकारेण स्खलितं ज्ञात्वा सम्यगागमोक्तेन विधिना भूयः

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416