Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 409
________________ दशवैकालिकं - टीकात्रिकयुतम् अतुच्छगाम्भीर्यनिवासभूमिर्नदीनभावप्रथितः पृथिव्याम् । ऊकेशवंशोऽस्ति पयोधिकल्पश्चित्रं तु जागर्त्ति जिनो यदन्तः ।।२।। उपजातिः ३९४ तस्मिन्नादिमपुरुषावुभावभूतां नितान्तकान्तगुणौ । प्रथमो दाहडनामा वरणिगनामा द्वितीयश्च ||३|| आर्या तत्राभूद् भूतहिता वाल्हेविर्वरणिगस्य सद्गृहिणी । आनखशिखाग्रमग्र्यैः, परिपूर्णा विमलगुणानिवहैः ||४|| तस्यामभूद् वरणिगस्य सुतः सुतीर्थ - वित्तव्ययार्जितयशाः किल देवचंद्रः । एकं बभूव खलु देवसिरिः कलत्रं, तस्य प्रशस्यामपरं ननु देमतेति ||५|| देवचन्द्रस्य देवश्री-कुक्षिजस्तनुजोऽजनि । थिरचन्द्रः कलासान्द्रः सुता नायकनामिका ||६|| तस्यैव देमतकलत्रसमुद्भवोऽभूत्, प्रज्ञाचणः सलखणः प्रथमस्तनूजः । आचारचारुरपरो धनदेवनामा, गाम्भीर्यधैर्यशममुख्यगुणावुभो च ।।७।। वसन्त० थिरदेविरभूद् भार्या थिरचंद्रस्यातिविश्रुतौदार्या । असपत्नगुणं पत्नीयुगलं जज्ञे सलखणस्य ||८|| आर्या वसन्त० आद्या सूहवदेविः, सहदेविश्चापरा परार्थपरा । धनदेवस्य च समजनि, सधर्मिणी धाहिणिर्धीरा ||९|| आर्या थिरदेवीदयितायां, थिरचन्द्रस्याभवन्नथांगरुहाः । ऐरावतदंता इव चत्वारो निर्मलात्मनः ।। १० ।। आद्यस्तेषु समस्तशस्तगुणवर्गः पासणागः सुधीर्धर्मोद्धारकृदामणाग इति विख्यातो द्वितीयस्तथा । शान्तः शान्तिकुमार इत्यधिगतो बुद्ध्या तृतीयः पुन स्तुर्यः संयमधुर्यधीर्महणसिंहः सिंहशूरोऽस्त्यहो ! ।।११।। शार्दूलविक्रीडतम्

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416