Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 411
________________ ३९६ लाहिणि-पातूसंज्ञं जिनचरणाराधने सदाभिज्ञम् । भगिनीयुगलं जज्ञे विज्ञममीषां मतिप्राज्ञम् || २३ || आर्या अह्ह्णभूरामणागस्य, केलिसिंहः कलागृहम् । तस्यास्ति शीलसम्पन्ना, कमलश्रीः सधर्मिणी ।। २४ ।। दशवैकालिकं-टीकात्रिकयुतम् फूदी समस्ति किल शांतिकुमारपुत्री, नेमासुता मतिमती ननु रत्नदेविः । लक्ष्मीधरस्य दयिता खलु नायकेति, बद्धादरा सुकृतकर्मणि पर्वणीव ।। २५ ।। वसन्ततिलका इतश्च सद्धर्मकर्मसु रतः सहृदामणागः पादाम्बुजं निजगुरोरुपसेवमानः । शुश्राव भावपरिचुम्बितचित्तवृत्तिर्ज्ञानानुभावमिति बुद्धिधनः कदापि ।।२६।। [व.ति.] तद्यथा मोहान्धकारहरणैकदिवाकरस्य संसारवारिनिधिदुर्द्धरवडवाग्नेः । चारित्रराजसचिवस्य शिवस्य बन्धो-र्ज्ञानस्य कः किल गुणौघवदावदः स्यात् ? ।।२७।। [व.ति.] दुप्षमादोषतश्चैतत्, पुस्तकाधीनतां गतम् । तल्लेखनमतः पुण्यद्रुमहोहदसोदरम् ।।२८।। अथाऽऽमणागो निजवल्लभायाः, आमश्रियः श्रेयसपुण्यहेतोः । व्यलेखयत् श्रीदशकालिकस्य वृत्तिं समग्रश्रुतसाररूपाम् ।।२९।। उपजातिः भुवनानलेंदु १३१४ संख्ये विक्रमसंवत्सरे प्रवृत्ते च । सङ्घसमक्षमिदानीं, तद्व्याख्यां कारयामास ।। ३० ।। युग्मम् ।। आर्या राजहंसाविमौ यावत्, क्रीडतः पुष्करान्तरे । वाच्यमानं बुधैस्तावदिदं नन्दतु पुस्तकम् ।।३१।। मङ्गलं महाश्रीः ।।छ।। शुभं भवतु ।। प्रशस्तिः समाप्ता ।।छ ।।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416