Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३९८
दशवैकालिकं-टीकात्रिकयुतम् यदा शय्यंभवाचार्यः प्रव्रजितस्तदा तस्य गृहिणी गर्भिण्यासीत्. जातश्च तस्याः पुत्रः क्रमेण, नामास्य कृतं मनक इति, यदा च सोऽष्टवार्षिको जातः, तदा स मातरं पृच्छति, क्व मम पिता ? सा भणति' तव पिता प्रव्रजितः, ततः स पितृसकाशे गंतुमना लब्धवृत्तान्तश्चम्पायां गतः, आचार्येण संज्ञाभूमिं गतेन स दृष्टः, तेन च वन्दित आचार्यः, उभयोश्च मिथः प्रेक्षमाणयोः स्नेहो जातः, आचार्यः 'पृच्छति कस्तव पिता ? स भणति' शय्यंभव इति, ततः सूरिणा भणितं "किमर्थमत्रागतोऽसि? तेनोक्तं- 'प्रव्रजिष्यामि', यदि यूयं जानीथ तदा कथयत 'क्वास्ति मम पितेति, सूरिणोक्तं स मम मित्रमेकशरीरीभूतः, ततः प्रव्रज त्वं मत्पार्श्वे ? प्रतिपन्नं च तेन, ततः स प्रव्राजितस्तत्रैव सूरिणा, आगतस्तेन सहोपाश्रये, उपयोगं दत्तवानाचार्यः' कियदायुरस्येति, ज्ञातं चातः परं षण्मासा आयुरस्येति, उत्पन्ना च बुद्धिराचार्यस्य, अस्य स्त्रोकायुषः किं कर्तव्यमिति, विममर्श च -
"चउदसपुवी कम्हि वि कारणे समुप्पन्ने निज्जूहइ, अपच्छिमो पुण चउदसपुव्वी अवस्समेव निज्जूहइ, मम वि इमं कारणं समुप्पन्नं, तओ अहमवि निज्जूहामि, ताहे आढत्तो निज्जूहिउं जाव थोवावसेसे दिअसे इमे दसज्झयणा निज्जूढा."
उद्धृतानि विकालवेलायां पाश्चात्यचतुर्घटिकारूपायां स्थापितान्येकत्र कृतानीति, ततः षड्भिर्मासैरधीतमध्ययनमिदं दशवैकालिकाख्यः श्रुतस्कन्धो मनकेन, ततः समाधिना स कालं गतः, तस्मिन् स्वर्गते आराधितमनेनेति शय्यंभवा आनन्दाश्रुपातमकार्षुः, ततस्तत्प्रधानशिष्येण यशोभद्रेण कारणे पृष्टे, प्रोक्तं भगवता संसारस्वरूपम्, ततो यशोभद्रादयो 'गुरुवद् गुरुपुत्रे वर्तितव्यमिति न्यायमार्गः. स चास्माभिर्नाचरित इति पश्चात्तापं चक्रुः, अथ शय्यंभवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रमुद्धृतं. किमत्र युक्तम्? इति सङ्घाय निवेदिते विचारणा कृता. यदुत कालदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणेति. इति श्रीसमयसुन्दरोपाध्यायविरचितश्रीदशवैकालिकशब्दार्थवृत्त्युपसंहारः संपूर्णः, || श्रीरस्तु ||
(लघुटीकाप्रणेतृणां सुमतिसाधुसूरीणां प्रशस्तिः-) महात्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ।।१।।

Page Navigation
1 ... 411 412 413 414 415 416