Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 408
________________ प्रशस्ति सिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां सहायकं चक्रुः, श्रीपद्मप्रभसूरयः ।।९।। शिष्योऽस्माकमिमां टीकां, यशस्तिलकपण्डितः । अलिखत् प्रथमादर्शे, शोधयित्वार्थतत्त्ववित् ||१०|| दशकालिकटीकासौ, सकलाप्यामूलचूलमेकाग्रैः । श्रीपालचन्द्रसूरिभि-रस्मच्छिष्यैरशोधयत् ।।११।। आर्या · इह श्लोकसहस्राणां, सप्तकं सर्वसङ्ख्यया । प्रत्यक्षरेण सङ्ख्याय, निश्चिकाय कविः स्वयम् ।।१२।। यावद् विजयते तीर्थं, श्रीमद्वीरजिनेशितुः । तावदेषा मरालीव, खेलतात् कृतिमानसे ।।१३।। ।। खम्भातताडपत्रीयप्रतलेखनप्रशस्तिः ।। ७००० ग्रन्थाग्रं सप्तसहस्राणि सकलमपि सम्पूर्णानि । शुभमस्तु सर्वजगतः, परहिनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोकः । । छ । । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ||१|| अग्नौ रक्षेज्जले रक्षेद् रक्षेत् शिथिलबंधनम् । कष्टेन लिख्यते शास्त्रं, पुत्रवत् प्रतिपालयेत् ।।२।। श्रीप्रज्ञातिलकसूरीणां दशवैकालिकपुस्तकमिदं । पं. माणिक्यतिलकेन शोधितं । मंगलं महाश्रीः । सुखमनुपमं स श्री मिस्तनोति तनूमतां, दिशि दिशि गता यस्य स्फाराः शरीरमरीचयः । भुवनमहिते राजीमत्या विवाहमहोत्सवे मदनजयिनः संराजन्ते शरा इव तेजिताः ।।१।। हरिणी ३९३

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416