Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 406
________________ २ चूलिका - विविक्तचर्या ३९१ संसारमार्गम् उपैति । सुरक्षितः सर्वदुःखेभ्यो विमुच्यते -मोक्षं महानन्दपदं समासादयति । इति-समाप्तौ ।।चू.१.१६ । । ब्रवीमीति पूर्ववत् ।। इति श्रीतिलकाचार्यविरचितायां दशवैकालिकटीकायामुत्तरचूलिका समाप्ता ।। (स.) अथ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह-3 इ- अप्पा' इतिएवंविधेन साधुनात्मा, खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि सततं सर्वकालं रक्षितव्यः पालनीयः, परलोकसम्बन्धिकष्टेभ्यः, कथम् ? - इत्युपायमाह-यतः किम्भूतेन साधुना ? सर्वेन्द्रियैः स्पर्शनादिभिः, सुसमाहितेन निवृत्तविषयव्यापारेण, अरक्षण- रक्षणयोः फलमाह - अरक्षितः सन्नात्मा पन्थानं जन्ममार्गं संसारमुपैति सामीप्येन गच्छति, अथ सुरक्षितः पुनरात्मा यथागममप्रमादेन सुष्ठु रक्षितः सन् सर्वदुःखेभ्यः शारीर- मानसेभ्यो विमुच्यते, विविधमनेकैः प्रकारैरपुनर्ग्रहणपरम-स्वास्थ्यापादनलक्षणैर्मुच्यते विमुच्यते, ब्रवीमीति पूर्ववत्. ।।चू.२.१६।। इति श्रीदशवैकालिक शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां द्वितीयचूलिका समाप्ता (सु.) शास्त्रमुपसंहरन्नाह - उपदेशसर्वतत्त्वमाह - अप्पा...इति आत्मा खल्वितिखलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि, सततं सर्वकालं, रक्षितव्यः पालनीयः पारलौकिकापायेभ्यः, कथम् ? - इत्युपायमाह - सर्वेन्द्रियैः - स्पर्शनादिभिः सुसमाहितेननिवृत्तविषयव्यापारेणेत्यर्थः, अरक्षण- रक्षणयोः फलमाह - अरक्षितः सन् जातिपन्थानंजन्ममार्गं संसारमुपैति-सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन सर्वदुःखेभ्यःशारीर-मानसेभ्यो, विमुच्यते - विविधं - अनेकैः प्रकारैः अपुनर्ग्रहण- परमस्वास्थ्याऽऽपादनलक्षणैर्मुच्यते विमुच्यते ।। चू. २.१६ ।। इति ब्रवीमीति पूर्ववत् ।। इति सुमति० वृत्तौ विविक्तचर्यानाम्नी द्वितीयचूला समाप्ता २ ।। ।। समाप्तेयं दशवैकालिकस्य लघुटीका ।।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416