Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३९०
दशवैकालिकं-टीकात्रिकयुतम् जस्सेरिसा जोग जिइंदियस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जीवइ संजमजीविएणं ।।चू.१.१५।। (ति.) यः पूर्वरात्रापररात्रेत्यधिकारोपसंहारार्थमाह-यस्येदृशाः-स्वहितालोचनप्रवृत्तिरूपाः । योगा:-मनो-वाक्-कायव्यापाराः । जितेन्द्रियस्य धृतिमतः सत्पुरुषस्य । नित्यं तमाहुलॊके विद्वांसः प्रतिबुद्धजीवितम्-प्रमादनिद्रारहितजीवितम् । सः-एवं गुणयुक्तः सन् साधुः, जीवति संयमजीवितेन।।
(स.) यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाह-जस्से...इति-विद्वांसस्तं साधुमेवंभूते लोके प्राणिसंघाते, नित्यं सर्वकालं सामायिकप्रतिपत्तेरारभ्या-ऽऽमरणं प्रतिबुद्धजीविनमाहुः कथयन्ति, कोऽर्थः ? प्रतिबुद्धजीविनं प्रमादरहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयमजीवितेन कुशलाभिसंधिभावात् सर्वथा संयमप्रधानजीवितेन, तं साधु कं ? यस्य साधोरीदृशाः स्वहितालोचनप्रवृत्तिरूपा योगा मनो-वाक्-कायव्यापारा भवन्ति, किम्भूतस्य साधोः ? जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियसमूहस्य, पुनः किंभूतस्य यस्य ? धृतिमतः संयमे धैर्यसहितस्य, पुनः किम्भूतस्य यस्य ? सत्पुरुषस्य प्रमादजयान्महापुरुषस्य. ||चू.१.१५।।
(सु.) यः पूर्वरात्र इत्याद्यधिकारोपसंहारामाह-यस्य साधोरीदृशाः स्वहितालोक(च)नप्रवृत्तिरूपा योगा मनो-वाक्-काय-व्यापारा, जितेन्द्रियस्य-वशीकृतस्पर्शनादीन्द्रियकलापस्य, धृतिमतः-संयमे सधृतिकस्य, सत्पुरुषस्य-प्रमादजयात् महापुरुषस्य, नित्यंसर्वकालं सामायिकप्रतिपत्तेरारभ्यामरणान्तं, तमाहुलॊके प्रतिबुद्धजीविनं-तमेवंभूतं साधुमाहुः-अभिदधति विद्वांसो, लोके-प्राणिसंघाते, प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयमजीवितेन-कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति ||चू.१.१५।।।
अप्पा खलु सययं रक्खियव्वो, सव्विंदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सबदुहाण मुच्चइ त्ति बेमि ||चू.२.१६ ।। (ति.) शास्त्रार्थमुपसंहरनुपदेशसर्वस्वमाह-आत्मा खलु सततं रक्षितव्यः । सर्वेन्द्रियैः-स्पर्शनादिभिः । सुसमाहितैः-निवृत्तस्वविषयव्यापारैः । अरक्षितो जातिपथम्१. जीवई इति मुद्रितः पाठः । २. जीवितं १.३-६ ।।

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416