Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
|| प्रशस्तिः ।।
अथ तिलकाचार्यवृत्तिप्रशस्तिमाहतीर्थे वीरप्रभोः सुधर्मगणभृत्, सन्तानलब्धोन्नतिः, चारित्रोज्वलचन्द्रगच्छजलधि-प्रोल्लासशीतद्युतिः । । साहित्यागमतर्कलक्षणमहा-विद्यापगासागरः, श्रीचंद्रप्रभसूरिरद्भुतमति-र्वादीभसिंहोऽभवत् ।।१।। शार्दूलविक्रीडितम् तत्पट्टलक्ष्मीश्रवणावतंसाः, श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां, दधौ नृपः श्रीजयसिंहदेवः ।।२।। उपजातिः तत्पट्टोदयशैलशृङ्गमभजत्, तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया, कोऽप्यत्र भानुर्नवः । सम्प्राप्ताभ्युदयः सदैव तमसा, नो जातु विच्छायितो, नैवोच्चण्डरुचिः कदाचिदपि न, प्राप्तापरागस्ततः ||३|| शार्दूलविक्रीडितम् विललस स्वैरं, तत्पट्टप्रासादचन्द्रशालायां । श्रीमान् शिवप्रभुगुरुः, संयमकमलाकृता शक्तिः ||४|| आर्या श्रीशिवप्रभसूरिणां, तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः, श्रुताराधनगृद्धिभाक् ||५|| आर्या एतां सोऽहं, विषमदशवै-कालिकग्रन्थटीकां, तत्पादाब्ज-स्मरणमहसा, मूढधीरप्यकार्षम् । तद् यत् किञ्चिद्-रभसवशतो, दब्धमस्यामशुद्धम्, तत्संशोध्यं, मयि कृतकृपैः, सूरिभिः सत्त्वविद्भिः ।।६।। मन्दाक्रान्ता टीका रचयता चैतां, यन्मया सुकृतं कृतम् । भवे भवेऽहं तेन स्यां, श्रुताराधनतत्परः ।।७।। विक्रमनृपात् त्रयोदश-शतमितसंवत्सरेषु । यातेषु टीका विनिर्ममोऽसौ, गच्छति चतुरुत्तरे वर्षे ।।८।। आर्या

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416