Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 401
________________ दशवैकालिकं-टीकात्रिकयुतम् ३८६ "वरं विहर्तुं सह पन्नगैर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैर्न पापमित्रैः सह वर्त्तितुं क्षमम् ।।१।। इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चाऽरयः । असत्प्रवृत्तेन जनेन संगतः परत्र चैवेह च हन्यते जनः ।। २ ।। " तथा "परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात् कथं हितः ? ||३|| " तथा "ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ।।४।।" इत्यादि ।।५०९।। संवच्छरं वा वि परं पमाणं, बीयं च वासं न तहिं वसिज्जा | सुत्तस्स मग्गेण चरिज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ।।चू.२.११।। (ति.) विहारकालमानमाह - संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । अपिशब्दाद् ऋतुबद्धकाले मासकल्पः, एकत्रोकृष्टं निवासकालमानमेतत् । द्वितीयं च वर्षं वर्षणं वर्षाकालं न तत्र वसेत् । यत्रैको वर्षाकालः कृतः, तत्र द्वितीयतृतीयो परिहृत्य चतुर्थः कल्पते । चकाराद् यत्रैको मासकल्पः कृतः, वर्षां विना तत्र मासद्वयं विमुच्यान्यः पुनः कल्पते । तथा सूत्रस्य मार्गेण-आगमादेशेन । चरेद् भिक्षुः । तथापि नौघतः श्रुतग्राही स्यात् । अपि तु सूत्रस्वार्थः- पूर्वापरविरुद्धः पारमार्थिकोत्सर्गापवादगर्भः । यथा आज्ञापयति-नियुङ्क्ते तथा वर्तेत । अपवादपदे च वृद्धस्य ग्लानस्य वा नित्यवासोऽपि त्रिधाकृते क्षेत्रे वसति - हिंडि - स्थण्डिलानि मासद्वय-द्वयं परिहृत्य क्रमेण परिशीलयतो न दोषः । अभावे त्वेषां निर्मायस्य, निर्ममस्य, अशक्तस्य, एकत्र स्थितस्यापि न दोषः।।चू.२.११ ।। (स.) अथ सूत्रार्थावसरः- संवत्सरं ' इति - साधोः संवत्सरं वर्षासु चातुर्मासिकं ज्येष्ठावग्रहं विहारकालमाह-द्वितीयं नैकत्र क्षेत्रे वसेदपिशब्दान्मासमपि परं प्रमाणमृतुबद्धकाले द्वितीयं, तत्र क्षेत्रे न वसेत्, यत्रैको वर्षाकल्पः कृतस्तत्रोत्कृष्टतो द्वितीयो

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416