Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
२ चूलिका - विविक्तचर्या ___ (स.) अत्रासङ्क्लिष्टैः समं वसेदित्युक्तं, पुनर्विधिविशेषमाह-ण...इति-साधुः कालदोषाद् यदि कथञ्चिन्निपुणं संयमानुष्ठानकुशलं सहायं परलोकसाधने द्वितीयं न लभेत्, किम्भूतं सहायं ? गुणाधिकं वा ज्ञानादिगुणैरधिकं वा, गुणैः समं वा, वाशब्दाद् गुणहीनमपि जात्यकाञ्चनकल्पं विनीतं वा, तदा किं कुर्यात् ?-इत्याह-तदैकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन्, विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन् सन् विहरेदुचितविहारेण, किं कुर्वन् ? कामेष्विच्छाकामादिषु, असज्यमानः सङ्गमगच्छन्, एकोऽपि विहरेत्, परं न तु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात् तस्य दुष्टत्वात्, तथान्यैरप्युक्तं
"वरं विहर्तुं सह पन्नगैर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् । .. अधर्मयुक्तैश्च परैरपण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम् ।।१।। इहैव हन्युर्भुजगा हि रोषिता धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन सङ्गतः परत्र चैवेह विहन्यते जनः ।।२।। तथापरलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसन्धत्ते सोऽन्यस्मै स्यात् कथं हितः ।।३।। तथाब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः | महान्ति पातकान्याहुरेभिश्च सह सङ्गतम् ।।४।। इत्यलं प्रसङ्गेन.||चू.२.१० ।।
(सु.) 'असंक्लिष्टैः समं वसेत्' इत्युक्तं, अत्र विशेषमाह- ण या, इति कालदोषान्न यदि लभेत-न यदि कथञ्चित् प्राप्नुयात्, निपुणं-संयमानुष्ठानकुशलं, सहायंपरलोकसाधनद्वितीयं, किंविशिष्टम् ?-इत्याह-गुणाधिकं वा-ज्ञानादिगुणोत्कटं वा, गुणतः समं वा-तृतीयार्थे पञ्चमी, गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किम् ?-इत्याह-एकोऽपि संहननादियुक्तः पापानि-पापकारणान्यसदनुष्ठानानि, विवजयन्-विविधं-अनेकैः प्रकारैः सूत्रोक्तैः परिहरन्, विहरेदुचितविहारेण, कामेष्विच्छाकामादिषु, असज्यमानः-सङ्गमगच्छन्, एकोऽपि विहरेत्, न तु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तं

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416