Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३८४
दशवैकालिकं-टीकात्रिकयुतम् वस्त्रादिभिः समभ्यर्चनं गृहिणो न कुर्यादुक्तदोष-प्रसङ्गादेव. तथैतद्दोषपरिहाराय एवमसक्लिष्टैर्गृहिवैयावृत्त्यादिकारणसङ्क्लेशरहितैः साधुभिः समं वसेन्मुनिः, यतो येभ्यः साधुभ्यः सकाशाच्चारित्रस्य मूलगुणादिलक्षणस्य हानिर्न स्यात्. ।।चू.२.९ ।।
(सु.) उपदेशाधिकार एवाह-गिहिणो' इति, गृहिणो-गृहस्थस्य वैयावृत्त्यंगृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभयात्रेयःसमायोजनदोषात्, तथाऽभिवादन-वाङ्नमस्कार-रूपं, वन्दनं-कायप्रणामलक्षणं, पूजनं च-वस्त्रादिभिः समभ्यर्चनं वा, गृहिणो न कुर्यात्, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः-गृहिवैयावृत्त्यादिकरण-संक्लेशरहितैः साधुभिः समं वसेन्मुनिः चारित्रस्य-मूलगुणादिलक्षणस्य यतो-येभ्यः साधुभ्यः सकाशान्न हानिः, संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति ||चू.२.९।।
न या लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ||चू.२.१०।।
(ति.) विशेषेणाह-न यदि लभेत । निपुणं सहायं गुणाधिकं वा गुणैः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत्, कामेषु असज्जमानः-सङ्गमगच्छन्, न तु पापमित्रेषु पार्श्वस्थादिषु सङ्गं कुर्यात् । अन्यैरप्युक्तम् -
वरं विहर्तुं सह पन्नगर्भवेच्-छठात्मभिर्वा रिपुभिः सहोषितम् । अधर्मयुक्तैश्चपलैरपण्डितैः, न पापमित्रैः सह वर्तितुं क्षमम् ।।१।। वंशस्थविलम् इहैव हन्युर्भुजगा हि रोषिता, धृतासयश्छिद्रमवेक्ष्य चारयः | असत्प्रवृत्तेन जनेन सङ्गतः, परत्र चैवेह च हन्यते जनः ।।२।। वंशस्थविलम् तथा - परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसन्धत्ते, सोऽन्यस्मै स्यात् कथं हितः ? ।।३।। तथा - ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः | महान्ति पातकान्याहुरेभिश्च सह सङ्गतम् ।।४।। इत्यलं प्रसङ्गेन ।।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416