Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 397
________________ ३८२ दशवैकालिकं-टीकात्रिकयुतम् साधुरमत्सरी च स्यात्, न परसम्पदा द्वेषी स्यात्, तथाभीक्ष्णं वारंवारं पुष्टकारणस्याभावे निर्विकृतिकश्च निर्गतविकृतिपरिभोगश्च भवेत्. अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथाभीक्ष्णं वारंवारं गमनागमनादिषु विकृतिपरिभोगे वेत्यन्ये, किम् ?इत्याह-कायोत्सर्गकारी भवेत, ईर्यापथप्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्यात्, तदशुद्धतापत्तेरिति भावः. तथा स्वाध्याययोगे वाचनादीनामुपचारव्यापारे आचाम्लादौ प्रयतोऽतिशयेन यत्नवान् भवेत्, तथैव तस्य सफलत्वात्, विपर्यये तून्मादादिदोषप्रसङ्गादिति.||चू.२.७।। (सु.) उपदेशाधिकार एवेदमाह-अमज्ज...इति, अमद्य-मांसाशी भवेदिति योगः, अमद्यपः अमांसाशी च स्यात् एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत् केचनाभिदधति-आरनालादिष्वपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात् त्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्ग-दोषात्, द्रवत्व-स्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गात् इत्यलं प्रसङ्गेन । अक्षरगमनिकामात्रप्रक्रमात्, तथा अमत्सरी च-न परसंपवेषी च स्यात्, तथा अभीक्ष्णं-पुनः पुनः पुष्टकारणाभावे निर्विकृतिकश्चनिर्गतविकृतिपरिभोगश्च भवेद्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह। तथाऽभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये । किम् ?-इत्याह-कायोत्सर्गकारी भवेद् ईर्यापथप्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्यात्, तदशुद्धतापत्तेरितिभावः । तथा स्वाध्याययोगे-वाचनाद्युपचारव्यापारे आचाम्लादौ प्रयतोऽतिशय-यत्नवान् भवेत् तथैव तस्य सफलत्वात्, विपर्यये उन्मादादिदोष-प्रसङ्गादिति ।।चू.२.७।। न पडिन्नविज्जा सयणासणाई, सिज्जं निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुज्जा ||चू.२.८।। (ति.) किञ्च-न प्रतिज्ञापयेत्-मासकल्पसमाप्तौ गच्छन् । 'भूयोऽभ्यागतस्य ममैवैतानि दातव्यानि, नान्यस्य' इति प्रतिज्ञां गृहस्थं न कारयेत् । किम् ?-आश्रित्याह । शयनासने, शय्याम्-वसतिं, निषद्याम्-स्वाध्यायभूमिम् । तथा भक्तपानम्-खण्डखाद्यद्राक्ष्यापानादि। एवं कृते ममत्वदोषात् । सर्वत्रैव ममत्वप्रतिषेधमाह । गामे कुले इत्यादि स्पष्टम् ।।चू.२.८ ।।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416