Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 398
________________ २ चूलिका - विविक्तचर्या ३८३ (स.) ण' इति - किञ्च साधुर्मासादिकल्पसमाप्तावन्यत्र गच्छन् सन्, इति गृहस्थं न प्रतिज्ञापयेन्न प्रतिज्ञां कारयेत्, इतीति किं ? पुनरागतस्य ममैतानि दातव्यानि, एतानि कानि ? - इत्याह- शयनं संस्तारकादि, आसनं पीठकादि, शय्या वसतिः, निषद्या स्वाध्यायादिभूमिः, तथा तेन प्रकारेण तत्कालेऽवस्थाया औचित्येन भक्तं खण्डखाद्यादि, पानं च द्राक्षादि न प्रतिज्ञापयेन्ममत्वदोषात्, अथ सर्वत्र ममतादोष - परिहारमाह-ग्रामे शालिग्रामादौ कुले वा श्रावककुले, नगरेऽयोध्यादौ देशे च मध्यदेशादौ ममेदमिति ममत्वभावं स्नेहमोहं न क्वचिदुपकरणादिष्वपि कुर्यात्, कुतो न स्नेहं कुर्यात् ? स्नेहमूलत्वाद् दुःखादीनामिति । । चू. २.८ । । " , (सु.) किञ्च न 'पडिण्णवेज्ज'...इति, न प्रतिज्ञापयेन्मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य मम एवैतानि दातव्यानि 'इति न प्रतिज्ञां कारयेद् गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भक्तपानमिति, तत्र शयनं-संस्तारकादि, आसनं-पीठकादि, शय्या - वसतिः, निषद्या - स्वाध्यायादिभूमिः, तथा तेन प्रकारेण तत्कालावस्थानोचितेन, भक्तपानं-खण्डखाद्यक - द्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात्, सर्वत्र एतन्निषेधमाह – ग्रामे - शालिग्रामादौ कुले वा श्रावककुलादौ, नगरेसाकेतादौ, देशे वा-मध्यदेशादौ ममत्वभावं ममेदमिति, स्नेहमोहं न क्वचिदुपकरणादिष्वपि कुर्यात् तन्मूलत्वाद् दुःखादीनामिति । । चू. २.८ ।। गिहिणो वेयावडियं न कुज्जा, अभिवायण-वंदण-पूयणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ।।चू.२.९।। (ति.) उपदेशाधिकार एवाह - गृहिणो वैयावृत्यम् - शयनासनार्पण-गृहरक्षणकल्पस्थक-खेलनादिकं न कुर्यात् । गृहिणस्तस्य च दोषप्रसङ्गात् । अभिवादनम्वाग्नमस्कारक्रिया । वन्दनम् - गुणस्तुतिः । पूजनम् - वस्त्रादिभिः । असंक्लिष्टैःगृहिवैयावृत्यकरणादिसंक्लेशरहितैः । साधुभिः समं वसेत् मुनिः । चारित्रस्य यतो न हानिः ।।चू.२.९ ।। (स.) पुनरुपदेशाधिकार एवमाह - गिहिण इति - मुनिर्गृहिणो गृहस्थस्य वैयावृत्त्यं गृहिभावस्योपकाराय तत्कर्मस्वात्मनो व्यापृत्तभावं न कुर्यात्, स्वपरोभयाश्रेयःसमायोजनदोषात्, अभिवादनं वाचा नमस्काररूपं, वन्द कायप्रणामलक्षणं. पूजनं वा १. कर्मसु आत्मनो 'इति विग्रहः कार्यः ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416