Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 402
________________ २ चूलिका - विविक्तचर्या ३८७ वर्षाकल्पो न कार्यः, एवं मासकल्पोऽपि द्वितीय एकक्षेत्रे उत्सर्गतो न कार्य ऋतुबद्धे काले, कुतः ? गृहस्थादिसङ्गदोषात्, द्वितीयं तृतीयं वा वर्षं मासं वा परिहृत्य तत्र क्षेत्रे वसेदपि, किं बहुना ? सर्वत्रैव सूत्रमार्गेण चरेद् भिक्षुरागमादेशे वर्तेतेति भावः . तथापि न ओघत एव यथाश्रुतग्राही स्यात्, अपि तु सूत्रस्यार्थः पूर्वापराऽविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथाज्ञापयति नियुङ्क्ते तथावर्तेत, नान्यथा, यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादि परिवर्त्तेत नान्यथा शुद्धापवादायोगादित्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकेहायातं परित्यजेत्, आशातनाप्रसङ्गात्. ।।चू.२.११।। (सु.) विहारकालमानमाह - संवच्छरं इति, संवत्सरं वाप्यत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते, तमपि, अपिशब्दात् मासमपि परं प्रमाणंवर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, द्वितीयं च वर्षं चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्षं च वर्षासु, चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत्, यत्रैको वर्षाकल्पो मासकल्पश्च कृतः, अपि तु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किं बहुना ?, सर्वत्रैव सूत्रस्य मार्गेण चरेद् भिक्षुरागमादेशेन वर्त्तेतेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात्, अपि तु सूत्रस्यार्थः-पूर्वापराविरोधितन्त्रयुक्ति-घटितः पारमार्थिकोत्सर्गापवादगर्भो यथाऽऽज्ञापयति-नियुङ्क्ते तथा वर्त्तेत, नान्यथा, यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारकगोचरादिपरिवर्त्तेन, नान्यथा, शुद्धापवादायोगात्, इत्येवं वन्दन-प्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेन अनुष्ठानेन वर्त्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत्, तदाशातनाप्रसङ्गादिति ।। चू.२.११ ।। जो पुव्वरत्तावररत्तकाले, संविक्खई अप्पगमप्पगेणं । किं मे कडं किच्चमकिच्वसेसं, किं सक्कणिज्जं न समायरामि ? ।। चू. २.१२ ।। (ति.) एवं विविक्तंचर्यावत यः सुन्दरगुणोवापायमाह - यः साधुः । पूर्वरात्राSपररात्रकाले - रात्रौ प्रथम- चरमप्रहरयोः । सम्प्रेक्षते । आत्मानमात्मना । कथम् ?इत्याह-किं मया कृतम्-शक्त्यनुरूपं तपश्चरणादि । किं च मे कृत्यशेषम् उद्वृत्तम् । १. संपिक्खई इति (स.)- टीकायां मूलग्रन्थः, तथा 'संपेहए' इति (सु.) टीकायां मूलग्रन्थः, विवृतं च संप्रेक्षते' इति टीकासु । 'सारक्खती' इति चूर्णिपाठः, 'पालयति' इति चूर्णितम् ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416