Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 396
________________ २ चूलिका - विविक्तचर्या ३८१ दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः, तथा संसृष्टकल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद् भिक्षुरिति उपदेशः, अन्यथा पुरस्कादिदोषात्, संसृष्टमेव विशिनष्टि-तज्जातसंसृष्ट इत्यामगोरसादिसमान-जातीयसंसृष्टे हस्तमात्रकादौ यतिर्यतेत-यत्नं कुर्याद, अतज्जातसंसृष्टे संसर्जनादि-दोषादिति, अनेनाष्टभङ्गसूचनं, तद्यथा-"संसटे हत्थे संसढे मत्ते सावसेसे दव्वे" [ ] इत्यादि, अत्र प्रथमो भङ्गः श्रेयान्, शेषाश्च चिन्त्या इत्यादि ।।चू.२.६ ।। अमज्जमंसासि अमच्छरीया, अभिक्खणं निविगयंगया य । अभिक्खणं काउसग्गकारी, सज्झाय-जोगे पयओ हविज्जा ||चू.२.७।। (ति.) उपदेशाधिकार एवेदमाह-अमद्यपो, अमांसाशी । अत्राह पर:-आरनाला-ऽरिष्ठानि, सन्धानानि, ओदनाद्यपि प्राण्यङ्गत्वान्मांसमिति त्याज्यम् । तदसत् । अमीषां मद्यमांसत्वायोगात् । लोक-शास्त्रयोरप्रसिद्धत्वात् सन्धानप्राण्यङ्ग-तुल्यता च नेह साध्वी । अतिप्रसङ्गदोषात् गोसम्भवत्वाद् दुग्धवद् गोमूत्रपानं, स्त्रीत्वतुल्यतया कलत्रवत् मातृगमनं प्रसक्ष्यति । तत इत्यलं प्रसंगेनाक्षरगमनिकामात्रप्रक्रमात् । तथा च । अमच्छरी च-न परसम्पद्वेषी च स्यात् । अभीक्ष्णम्-पुनः पुनःनिर्विकृतिकाङ्गता-परिभोगोचिता अपि षड्विकृतयः पुष्टकारणाभावं विनान्तर्भोक्तव्याः । बहिरपि अभ्यङगो न कार्यः । अभीक्ष्णं कायोत्सर्गकारी-धर्मध्यानार्थम । स्वाध्याये-पञ्चप्रकारे वाचनादौ, योगे-आचाम्लादौ । प्रयतो भवेत्-प्रयत्नं कुर्यात् । अन्यथोन्मादप्रसङ्गात् ||चू.२.७।। (स.) उपदेशाधिकार एवेदमाह-अमज्ज...इति-साधुरमद्य-मांसाशी भवेदित्युक्तिः, कोऽर्थ? अमद्यषोऽमांसाशी च स्यात्, एते च मद्य-मांसे लोका-ऽऽगमप्रसिद्ध एव, ततश्च यत् केचन कथयन्ति-आरनालादिष्वपि सन्धानदोषादोदनाद्यपि प्राण्यङ्गत्वात् त्याज्यमिति, तदसत्. अमीषां मांस-मद्यत्वस्यायोगात्, लोक-शास्त्रयोरप्रसिद्धत्वात्, सन्धानप्राण्यङ्गत्व-तुल्यत्वचोदनं त्वसाध्वतिप्रसङ्गदोषात्, द्रव्यत्व-स्त्रीत्वतुल्यतया मूत्र-पान-मातृगमनादि-प्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिका-मात्रप्रक्रमात्. पुनः १. परस्परप्रद्वेषी २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416