Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
२ चूलिका - विविक्तचर्या
३७९ द्रष्टव्या इति, एते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवन-प्ररूपणारूपेणेति ||चू.२.४।।
अनिएयवासो समुयाण चरिया, अन्नायउंछं पर्यरिक्कया य । अप्पोवही कलहविवज्जणा य, विहारचरिया इसिणं पसत्था ||चू.२.५।। (ति.) चर्यामाह-अनियतवासः-मासकल्पादिना । समुदानचर्या-अनेकत्र याचितभिक्षाचरणम्। अज्ञातोञ्छम्-प्राग्वद्, विशुद्धोपकरणविषयम् । प्रविरिक्तताविजनैकान्तसेविता । अल्पोपधित्वम्-अनुल्बणस्तोकोपधिसेवित्वम् । कलहविवर्जना च । विहारचर्या-विहरणस्थितिः, विहरणमर्यादा | ऋषीणां प्रशस्ता-व्याक्षेपाभावात् ||चू.२.५।।
(स.) अथ चर्यामाह-अनिएअ' इति-ऋषीणामेवम्भूता विहारचर्या विहरणस्थितिविहारमर्यादा प्रशस्ता भवति. व्याक्षेपस्याभावात्, आज्ञापालनेन भावचारित्रपालनाच्च पवित्रा, एवम्भूता कथम् ?-इत्याह-अनियतवासो मासकल्पादिना, अनिकेतवासो वा अगृह उद्यानादौ वासः, तथा समुदानचर्याऽनेकत्रयाचितभिक्षाचरणं, तथाऽज्ञाते उञ्छं विशुद्धोपकरणग्रहणविषयं, 'पइरिक्कया य' विजनैकान्तसेविता चाल्पोपधित्वमनुल्बणयुक्तस्तोकोपधिसेवित्वं, कलहविवर्जना च, तद्वासिजनभण्डनविवर्जनं श्रवणकथादिनापि वर्जनमित्यर्थः, विहारचर्या ऋषीणां प्रशस्ता इत्युक्तम्. ।।चू.२.५।।
(सु.) चर्यामाह-अनिएइति, अनियतवासो मासकल्पादिना अनिकेतवासो वाअगृहे-उद्यानादौ वासः, तथा समुदानचर्या-अनेकत्रयाचितभिक्षाचरणं, अज्ञातोञ्छंविशुद्धोपकरण-ग्रहणविषयं, 'पइरिक्कया य'-विजनैकान्तसेविता च, अल्पोपधित्वंअनुल्बणयुक्तस्तोकोपधिसेवित्वं, कलहविवर्जना च-तथा तद्वासिजनभण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथादिनापि वर्जनमित्यर्थः । विहारचर्या-विहरणस्थितिः, विहरणमर्यादा, इयमेवंभूता. ऋषीणां-साधूनां, प्रशस्ता-व्याक्षेपाभावादाज्ञापालनेन भावचरणसाधनात् पवित्रेति ||चू.२.५।।।
ओइन्नोमाणविवज्जणा य, ओसन्नदिट्ठाहडभत्तपाणे ।।
संसट्ठकप्पेण चरिज्ज भिक्खू, तज्जायसंसट्ठ जई जइत्ता ||चू.२.६ ।। १. 'वृत्त्यन्तरे' पइरिक्कया' मूलपाठः | २. आइन्नओमाण, इत्यन्यत्र मुद्रितम् ।

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416