Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
दशवैकालिकं-टीकात्रिकयुतम्
(ति.) चर्याविशेषोपदेशमाह-आकीर्णावमानवर्जना च-आकीर्णम् - राजकुलसङ्खड्यादि, अवमानम्-दुर्भिक्षादि, आकीर्णे हस्तपादादिलूषणदोषात्, अवमाने अलाभाऽऽधाकर्मादिदोषात् । उत्सन्नं शब्दः प्रायोऽर्थे, प्रायो दृष्टं सन् आहृतं दृष्टाहृतं च तत् भक्तपानम्, इदं साधूनां प्रशस्तम्, अत्र प्रथमार्थे सप्तमी । संसृष्टकालेन - हस्तमात्रकादिसंसृष्टविधिना चरेद् भिक्षुः । अन्यथा पुरःकर्मादिदोषात् । तज्जातसंसृष्टे-आमगोरसमधुम्रक्षणादिसंसृष्टे हस्तमात्रकदौ । यतिर्यतेत-यत्नं कुर्याद्, न गृह्णीयादित्यर्थः । संसर्जनादिदोषप्रसङ्गात् ।।
३८०
(स.) अथ तद्विशेषस्योपदर्शनायाह - आइन्न... इति-आकीर्णा - ऽवमानविवर्जना च विहारचर्या ऋषीणां प्रशस्तेति, आकीर्णञ्चाऽवमानविवर्जना च विहारचर्या ऋषीणां प्रशस्ता, तत्राकीर्णं राजकुल- सङ्खड्यादि, अवमानं स्वपक्ष-परपक्षप्राभृ(भू)त्यजं लोकाबहुमानादि, अस्य विवर्जनम्, आकीर्णे हस्त-पादादिलूषणदोषो भवेत्, अवमानेऽलाभा-ऽऽधाकर्मादिदोषो भवेत्, तथोत्सन्नदृष्टाहृतं प्राय उपलब्धमुपनीतम्, उत्सन्नशब्दः प्रायोवृत्तौ वर्तते, यथा 'देवा ओसन्नं सायं वेयणं वेयंति', किमेत् ?इत्याह-भक्तपान-मोदना- Sऽरनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, एवम्भूतमुत्सन्नदृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः. तथा भिक्षुः साधुः संसृष्टकल्पेन हस्तमात्रकादिसंसृष्टविधिना चरेदित्युपदेशः, अन्यथा पुरःकर्मादिदोषः स्यात्, संसृष्टमेव विशिनष्टि, तज्जातसंसृष्ट इति, आमगोरसादिसमानजातीयसंसृष्टे मात्रकादौ यतिर्येतत यत्नं कुर्यात्, अतज्जातसंसृष्टे सम्मार्जनादिदोषः स्यादित्यनेनाष्टभङ्गसूचनं, तद्यथा - 'संसद्वे हत्थे संसट्टे मत्ते सावसेसे दव्वे' अथ प्रथमो भङ्गः श्रेयान्, शेषाः स्वयं चिन्त्याः. । । चू.२.६।।
(सु.) विहारचर्या ऋषीणां प्रशस्ता 'इत्युक्तं तद्विशेषोपदर्शनायाऽऽहआइण्ण...इति-आकीर्णमवमानविवर्ज्जना च विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्णंराजकुलसंखड्यादि, अवमानं स्वपक्ष-परपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जनं, आकीर्णे हस्तपादादिलूषणदोषाद्, अवमाने अलाभा -ऽऽधाकर्मादिदोषादिति, तथोत्सन्नदृष्टाहृतं—प्राय उपलब्धमुपनीतं, उत्सन्नशब्दः प्रायो वृत्तौ वर्त्तते, यथा "देवा उस्सन्नं सायं वेयणं वेयंति", [ ] किम् ? - इत्याह-भक्तपानं - ओदना -ऽऽरनालादि, इदं चोत्सन्नदृष्टाहृतं, यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, "भिक्खग्गाही एत्थ कुणइ, बीओ अ दोसु उवजोगमिति" [ ] वचनाद्, इत्येवम्भूतमुत्सन्नं

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416