Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 391
________________ ३७६ दशवकालिकं-टीकात्रिकयुतम् समाधानं प्रापितं चेतः पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनस्ववृत्तं, वेलां समुद्र इव लङ्घयितुं समर्थः ।।३।। वसन्ततिलका (स.) इह चाध्ययने चर्यागुणा अभिधेयाः, तस्य प्रवृत्तौ मूलपाद-भूतमिदमाहअणु...इति-एवंविधेन साधुना, आत्मा जीवः प्रतिस्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादिसंयमलक्ष्याभिमुखमेव दातव्यः प्रवर्तितव्यः, न क्षुद्रचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्तव्यम्, अपि त्वागमैकप्रवणेनैव भवितव्यं, किम्भूतेन साधुना ? भवितुकामेन संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन, पुनः किम्भूतेन साधुना ? प्रतिस्रोतोलब्धलक्षेण द्रव्यतस्तस्यामेव नद्यां कथंचिद् देवतासान्निध्यात् प्रतीपस्रोतः प्राप्तलक्षेण, भावतस्तु विषयादिवैपरीत्यात् कथञ्चित् प्राप्तसंयमलक्षेण, क्व सति ? बहुजने तथाविधादभ्यासात् प्रभूतलोकेऽनुस्रोतःप्रस्थिते सति नदीपूरप्रवाहपतितकाष्ठवत्, विषयकुमार्गद्रव्य-क्रियानुकूल्येन प्रवृत्ते सति तथाप्रस्थानेनोदधिगामिनि सति.।।चू.२.२.।। (सु.) इह चाध्ययने चर्यागुणा अभिधेयाः, तत् प्रवृत्तौ मूलपादभूतमिदमाहअणुसोए' इति अनुश्रोतःप्रस्थिते-नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्ग-द्रव्यक्रियानुकूल्येन प्रवृत्ते बहुजने तथाविधाभ्यासात् प्रभूतलोके, तथाप्रस्थानेनोदधिगामिनि, किम्?इत्याह-प्रतिश्रोतोलब्धलक्ष्येण-द्रव्यतस्तस्यामेव नद्यां कथञ्चिद् देवतानियोगात् प्रतीपश्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात् कथञ्चिदवाप्तसंयमलक्ष्येण, प्रतिश्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि, संयमलक्ष्याभिमुखमेवात्मा-जीवो दातव्यः-प्रवर्त्तयितव्यो, भवितुकामेन-संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्या-ऽसन्मार्गप्रवणं चेतोऽपि कर्तव्यम् अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च "निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः। तपश्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ||१|| तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रसार्थेऽपि समाहितं मनः ।।२।।

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416