Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 389
________________ | || अथ द्वितीया चूलिका विविक्तचर्या ।। चूलियं तु पवक्खामि, सुयं केवलिभासियं । जं सुणित्तु सपुन्नाणं, धम्मे उप्पज्जई मई ||चू.२.१।।। (ति.) अधुना द्वितीया व्याख्यायते । इदमादिसूत्रं, तस्याः | चूलिकां तु प्रवक्ष्यामि। श्रुतं केवलिभाषितम्-केवलिना श्रीसीमन्धरस्वामिना श्रीमुखेन भाषितम् । यत् श्रुत्वा सपुण्यानाम्-प्राणिनाम् । धर्मे उत्पद्यते मतिः । इयं गाथा अन्यकर्तृकीव लक्ष्यते ||चू.२.१।। (स.) चूलिअं' इति, व्याख्याता प्रथम चूलिका, अथ द्वितीयाऽऽरभ्यते-पूर्वचूलिकायां सीदतः साधोः स्थिरीकरणमुक्तम्, इह त्ववसरप्राप्ता 'विविक्ता चर्या' उच्यत इत्ययं सम्बन्धः, अहं चूलिकां प्रवक्ष्यामि, तुशब्दविशेषितां भावचूडा, प्रकर्षणावसरप्राप्ताभिधानलक्षणेन कथयिष्यामि, किम्भूतां चूलिकां ? श्रुतं श्रुतज्ञानं, चूडा हि श्रुतज्ञानं वर्त्तते, कारणे कार्यस्योपचारात्, एतच्च केवलिना भाषितम्, अनन्तर एव केवलिना प्ररूपितमिति विशेषणं सफलम् । __यत एवं वृद्धवादः श्रूयते, कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः साधुश्चातुर्मासकादावुपवासं कारितः, स तदाराधनया मृतः, मृते च तस्मिन् साध्व्या ज्ञातम्, अहमृषिघातिका जाता, तत उद्विग्ना सती तीर्थकरं पृच्छामीति जातबुद्धिः, ततस्तस्या गुणावर्जितया देवतया साध्वी सीमन्धरस्वामिसमीपे मुक्ता, तया च भगवानालोचनामाश्रित्य पृष्टः, भगवानाह-त्वं तु न दुष्टचित्ता, ततोऽघातिका, ततो भगवता चूलाद्वयं तस्यै दत्तं, देवतया च ततः स्वस्थानमानीता साध्वी, अत इदमेव विशेष्यते, तत् श्रुत्वाकर्ण्य सपुण्यानां कुशलानुबन्धि पुण्ययुक्तानां प्राणिनामचिन्त्य-चिन्तामणिकल्पे धर्मे चारित्रधर्मे मतिरुत्पद्यते-भावतः श्रद्धा जायते, अनेन चारित्रं चारित्रबीजं चोपजायत इति, एतदुक्तं भवति. एतद्धिप्रतिज्ञासूत्रम् ।।चू.२.१ ।। (सु.) व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयमारभ्यते, अस्यौघतः सम्बन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तं, इह तु विविक्तचर्योच्यत इत्ययमभिसम्बन्धः- चूलियं इति, चूडां-प्राग् व्यावर्णितशब्दार्थां, तुशब्दविशेषितां भावचूडा, १. चूर्णी गाथेयं विद्यते. विवृता च विस्तरतः,

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416