Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३७२
दशवैकालिकं-टीकात्रिकयुतम् भविष्यति, किमित्याह-अशाश्वती-प्रायो यौवनकालावस्थायिनी भोगपिपासा-विषयतृष्णा, जन्तोः-प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-न चेच्छरीरेणानेनापयास्यति-न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं ?, यतोऽपयास्यति जीवितपर्ययेण-जीवितस्य व्यपगमेन-मरणेनैवं निश्चितः स्यादिति ||चू.१.१६ ।।
जस्सेव अप्पा, ओ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणं । तं तारिसं नो पयलंति इंदिया, उप्पायवाया व सुदंसणं गिरिं ||चू.१.१७।।
(ति.) अस्यैव फलमाह-यस्य-साधोः । एवम्-उक्तप्रकारेण । आत्मा तुरेवार्थे, आत्मैव । निश्चितः-दृढः, क्वचिद् विघ्ने परकृते इन्द्रियकृते वा उपस्थिते । त्यजेद् देहं, न तु धर्मशासनम्-धर्माज्ञाम् । तं तादृशम्-निश्चितम् । न प्रचलयन्ति । संयमाद् इन्द्रियाणि । उत्पातवाता इव सुदर्शनं गिरिम्-मेरुपर्वतं स्थानात् ।।चू.१.१७ ।।
(स.) अथास्यैव साधोः फलमाह-जस्स...इति-इन्द्रियाणि चक्षुरादीनि, तं पूर्वोक्तं तादृशं, धर्मे निश्चितं साधु, संयमस्थानान्न प्रचालयन्ति न प्रकम्पयन्ति, दृष्टान्तमाहके कमिव ? यथोत्पातवाताः सुदर्शनं गिरि मेरुपर्वतं न कम्पयन्ति, तं साधुं कं ? यस्य साधोरेवमुक्तप्रकारेणात्मैव निश्चितो दृढः स क्वचिद् विघ्न उत्पन्ने देहं त्यजेत्, परं न तु शासनं न पुनर्धर्माज्ञाम्. ||चू.१.१७ ।।
(सु.) अस्यैव फलमाह-जस्सेव...इति, यस्येति-साधोरेवमुक्तेन प्रकारेणात्मा, तुतुशब्दस्यैवकारार्थत्वादात्मैव भवेनिश्चितो दृढः यः, स त्यजेद् देहं क्वचिद् विघ्न उपस्थिते, न तु धर्मशासनं-न पुनर्धर्माज्ञामिति, तं च तादृशं धर्मे निश्चितं न प्रचालयन्ति-संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि-चक्षुरादीनि । निदर्शनमाहउपपातवाता इव-संपतत्पवना इव सुदर्शनं गिरिं-मेरुं, एतदुक्तं भवति-यथा मेरुं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ।।चू.१.१७ ।।
इच्चेव संपस्सिय बुद्धिमं नरो, आयं उवायं विविहं वियाणिया । काएण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिडिज्जासि ||चू.१.१८ ।।
त्ति बेमि

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416