Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 386
________________ १ चूलिका - रतिवाक्या एतच्चिन्तनेन साधुना नोत्प्रव्रजितव्यम् एतत् किमित्याह - अस्य तावदित्यात्मनिर्देशे, आत्मनो नारकस्य जन्तोर्नरकप्राप्तस्य पल्योपमं सागरोपमं च क्षीयते, यथा- कर्मप्रत्ययं पूर्णं भवति किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधप्रबलक्लेशवृत्तिरहितमेतत् क्षीयत एव किम्भूतस्यास्य जन्तोः ? दुःखोपनीतस्य सामीप्येन प्राप्तदुःख-क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य ।। चू.१.१५ । । ३७१ (सु.) यस्मादेवं, तस्मादुत्पन्नदुःखोपि एतदनुचिन्त्य नोत्प्रव्रजेत् इत्याह-इमस्स...इति, अस्य तावदित्यात्मनिर्देशे, नारकस्य जन्तोः नरकमनुप्राप्तस्येत्यर्थः, दुःखोपनीतस्य-सामीप्येन प्राप्तदुःखस्य, क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य सतो, नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्म्मप्रत्ययं किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशधृति (दोष) रहितं ? एतत् क्षीयत एव एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति ।। चू.१.१५।। न मे चिरं दुक्खमिणं, भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेण वेसेई, अविस्सई जीवियपज्जवेण मे ।।चू.१.१६।। I (ति.) विशेषेणैतदेवाह - न मम चिरम् - प्रभृतकालम् । दुःखमिदम् - संयमारतिलक्षणं भविष्यति । अशाश्वता- प्रायो यौवनकालभाविनी । भोगपिपासा जन्तोर्भोगतृष्णाया । अशाश्वतत्त्वे कारणान्तरमप्येतत् । न चेत् शरीरेणानेन - वृद्धेनापि सता । अपैष्यति । यदि न यास्यति तथापि हे जीव ! किमाकुलस्त्वम् । अपैष्यति जीवितपर्यायेण ममजीवनव्यपगमेन निश्चितं यास्यत्येव - नोत्प्रव्रजति ।।चू.१.१६ ।। (स.) विशेषेणैतदेवाह - न इति मे मम चिरं प्रभृतकालमिदं दुःखं संयमविषयेSरतिलक्षणं न भविष्यति, किमितीत्याह- प्रायो यौवनकालावस्थायिनी भोगपिपासा विषयतृष्णा जन्तोः प्राणिनोऽशाश्वती, अशाश्वतीत्व एव कारणान्तरमाह - न चेच्छरीरेणानेन विषयतृष्णा अपयास्यति, यदि शरीरेणानेन कारणभूतेन वृद्धस्यापि सतो विषयेच्छा नापयास्यति, तथापि किमाकुलत्वं ? यतोऽपयास्यति जीवितस्यापगमेन मरणेनेत्येवं निश्चितं स्यात्. ।।चू.१.१६ । । (सु.) विशेषेणैतदेवाह - न मे... इति, न मम चिरं - प्रभूतकालं दुःखमिदं - संयमारतिलक्षणं १. टीकान्तरे 'अविस्सइ' पाठो मूलत्वेन गृहीतः, विवृतश्च 'अपयास्यति' इति । चूर्णौ 'वियस्सती' पाठः, 'विगच्छिहिति' चूर्णितम्. ૫

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416