Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 385
________________ दशवैकालिकं-टीकात्रिकयुतम् प्रसह्य-बलात् । चेतसा- उपलक्षणत्वात् वाचा कायेन च । तथाविधं असंयमम्कृष्याद्यारम्भम्, असंतोषाद् बहुं कृत्वा गतिं च गच्छति । अनभिध्याताम् अनिष्टाम् । दुःखाम्-दुःखजननीम् । बोधिश्च - जिनधर्मावाप्तिः । तस्य निःक्रान्तस्य । न पुनः सुलभा - प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वात् । चू.१.१४ ।। ३७० (स.) अथास्यैवोत्प्रव्रजितस्य विशेषतः कष्टमाह - भुञ्जितु 'इति-स उत्प्रव्रजित एवंविधां गतिं गच्छति, किं कृत्वा ? भोगान् भुक्त्वा, केन ? प्रसह्य चेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, पुनः किं कृत्वा ? तथाविधमज्ञानोचितफलं, बहुमसन्तोषात् प्रभूतमसंयमं कृष्याद्यारम्भरूपं कृत्वा. किम्भूतां गतिम् ? अनभिध्यातामनिष्टां, पुनर्दुःखां प्रकृत्यैवासुन्दरां, दुःखजननीं पुनरस्योत्प्रव्रजितस्य बोधिर्जिनधर्मप्राप्तिर्न सुलभा भवेत् पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभा एव स्यात्. कथं ? प्रवचनविराधकत्वात्. ।।चू.१.१४।। (सु.) अस्यैव विशेषाऽपायमाह - भुंजित्तु इति स - उत्प्रव्रजितो, भुक्त्वा भोगान्शब्दादीन्, प्रसह्य चेतसा-धर्म्मनिरपेक्षतया, प्रकटेन चित्तेन तथाविधं अज्ञोचितफलं कृत्वाऽभिनिर्व्वर्त्या-ऽसंयमं कृष्याद्यारम्भरूपं बहुं असन्तोषात् प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छत्यनभिध्यातां - अभिध्याता- इष्टा न तामनिष्टामित्यर्थः, काचित् सुखाऽप्येवंभूता भवति, अत आह-दुःखां - प्रकृत्यैवासुन्दरां दुःखजननीं, बोधिश्चास्य जिनधर्मप्राप्तिश्चास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति । । चू. १.१४ ।। इमस्स ता नेरइयस्स जंतुणो, दुहोवणीयस्स किलेसवत्तिणो । पलिओवमं झिज्झेइ सागरोवमं, किमंग ! पुण मज्झ इमं मणोदुहं ।।चू.१.१५।। (ति.) कश्चिदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह—अस्य तावन्ममैव जन्तोः नैरयिकस्य दुःखोपनीतस्य - दुःखहेतुभिः कर्मभिरुपनीतस्य नैरयिकत्वं प्राप क्लेशवर्तननरकस्थस्यैव पल्योपमं क्षीयते । सागरोपमं च कर्मानुमानेन । किमङ्ग ! पुनर्ममेदम्-संयमारतिनिःपन्नम् । मनोदुःखम् - अल्पकालिकत्वात् । क्षिप्रं क्षेप्यतीति मत्वा नोत्प्रव्रजति ।। चू. १.१५ । । (स.) यस्मादेवं, तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेत्, इत्याह-इमस्स... इति १. छिज्जइ' इति मुद्रितमन्यत्र ।

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416