________________
दशवैकालिकं-टीकात्रिकयुतम्
प्रसह्य-बलात् । चेतसा- उपलक्षणत्वात् वाचा कायेन च । तथाविधं असंयमम्कृष्याद्यारम्भम्, असंतोषाद् बहुं कृत्वा गतिं च गच्छति । अनभिध्याताम् अनिष्टाम् । दुःखाम्-दुःखजननीम् । बोधिश्च - जिनधर्मावाप्तिः । तस्य निःक्रान्तस्य । न पुनः सुलभा - प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वात् । चू.१.१४ ।।
३७०
(स.) अथास्यैवोत्प्रव्रजितस्य विशेषतः कष्टमाह - भुञ्जितु 'इति-स उत्प्रव्रजित एवंविधां गतिं गच्छति, किं कृत्वा ? भोगान् भुक्त्वा, केन ? प्रसह्य चेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, पुनः किं कृत्वा ? तथाविधमज्ञानोचितफलं, बहुमसन्तोषात् प्रभूतमसंयमं कृष्याद्यारम्भरूपं कृत्वा. किम्भूतां गतिम् ? अनभिध्यातामनिष्टां, पुनर्दुःखां प्रकृत्यैवासुन्दरां, दुःखजननीं पुनरस्योत्प्रव्रजितस्य बोधिर्जिनधर्मप्राप्तिर्न सुलभा भवेत् पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभा एव स्यात्. कथं ? प्रवचनविराधकत्वात्. ।।चू.१.१४।।
(सु.) अस्यैव विशेषाऽपायमाह - भुंजित्तु इति स - उत्प्रव्रजितो, भुक्त्वा भोगान्शब्दादीन्, प्रसह्य चेतसा-धर्म्मनिरपेक्षतया, प्रकटेन चित्तेन तथाविधं अज्ञोचितफलं कृत्वाऽभिनिर्व्वर्त्या-ऽसंयमं कृष्याद्यारम्भरूपं बहुं असन्तोषात् प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छत्यनभिध्यातां - अभिध्याता- इष्टा न तामनिष्टामित्यर्थः, काचित् सुखाऽप्येवंभूता भवति, अत आह-दुःखां - प्रकृत्यैवासुन्दरां दुःखजननीं, बोधिश्चास्य जिनधर्मप्राप्तिश्चास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति । । चू. १.१४ ।।
इमस्स ता नेरइयस्स जंतुणो, दुहोवणीयस्स किलेसवत्तिणो । पलिओवमं झिज्झेइ सागरोवमं, किमंग ! पुण मज्झ इमं मणोदुहं ।।चू.१.१५।।
(ति.) कश्चिदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह—अस्य तावन्ममैव जन्तोः नैरयिकस्य दुःखोपनीतस्य - दुःखहेतुभिः कर्मभिरुपनीतस्य नैरयिकत्वं प्राप क्लेशवर्तननरकस्थस्यैव पल्योपमं क्षीयते । सागरोपमं च कर्मानुमानेन । किमङ्ग ! पुनर्ममेदम्-संयमारतिनिःपन्नम् । मनोदुःखम् - अल्पकालिकत्वात् । क्षिप्रं क्षेप्यतीति मत्वा नोत्प्रव्रजति ।। चू. १.१५ । ।
(स.) यस्मादेवं, तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेत्, इत्याह-इमस्स... इति
१. छिज्जइ' इति मुद्रितमन्यत्र ।