________________
१ चूलिका - रतिवाक्या
इहेव धम्मो अयसो अकित्ती, दुन्नामधेयं च पिहुज्जणम्मि । चुस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिदुओ गई । । चू. १.१३ । ।
३६९
(ति) इदानीमुत्प्रव्रजितस्य ऐहिकामुष्मिकापायमाह - इहैव इहलोके एव । अधर्मोऽयं पापात्मा । अयशः - असाधुवादः । अकीर्तिः- निन्दनीयता । दुर्नामधेयं चअग्राह्यनामता पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्ट लोके । च्युतस्य धर्मात्उत्प्रव्रजितस्य । अधर्मसेविनः- कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः । सम्भिन्नवृत्तस्यखण्डितचारित्रस्य । अधस्ताद् गतिः- नरकेषूपपादः ।। चू. १.१३ ।।
(स.) एवमस्य भ्रष्टशीलस्य सामान्यत इहलोकसम्बन्धिनं दोषं कथयित्वेहलोक - परलोकसंम्बधिनं दोषमाह - इहेव ' इति - धर्माच्च्युतस्य धर्मादुत्प्रव्रजितस्यैतानि भवन्ति . कानि ?-इत्याह-इह लोक एवाधर्मो भवति. अयमधर्म इति, पुनरयशोऽपराक्रमेण कृतं न्यूनत्वं भवति, तथाऽकीर्तिरदानपुण्यफलप्रवादरूपा, तथा दुर्नामधेयं च कुत्सितनामधेयं भवति, क्व ? - इत्याह- पृथग्जने सामान्यलोकेऽपि. आस्तां विशिष्टलोके, किंविशिष्टस्य ? धर्माच्च्युतस्य अधर्मसेविनः कलत्रादीनां निमित्तं षड्जीवनिकायस्योपमर्दकारिणः, पुनः किंविशिष्टस्य ? सम्भिन्नवृत्तस्य खण्डितचारित्रस्य, क्लिष्टकर्मबन्धादधस्ताद्गतिर्नरकेषूपपातो भवति. ।।चू.१.१३।।
(सु.) एवं भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह - इहेव... इति, इहैव-इहलोक एवाधर्म्म इति, अयमधर्म्मः फलेन दर्शयति-यदुतायशः - अपराक्रमकृतं न्यूनत्वं, तथाऽकीर्त्तिरदान-पुण्यफलप्रवादरूपा, तथा दुर्नामधेयं च पुराणः पतित इति कुत्सितनामधेयं च भवति, क्व ? - इत्याह- पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्टलोके, कस्य ?-इत्याह-च्युतस्य-धर्मादुत्प्रव्रजितस्येतिभावः, तथाऽधर्मसेविनःकलत्रादिनिमित्तं षट्कायोपमर्दकारिणः, तथा संभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धाद् अधस्ताद्गतिः - नरकेषु अवपात ( षूपपात) इति । ।चू.१.१३ ।।
भुंजित्तु भोगाई पसज्झ चेयसा, तहाविहं कट्टु असंजमं बहुं । गइं च गच्छे अणभिज्झियं दुहं, बोही य से नो सुलहा पुणो पुणो ।। चू. १.१४।। (ति.) अस्यैव विशेषापायमाह - स - उत्प्रव्रजितः । भुक्त्वा भोगान्-शब्दादीन् ।