________________
दशवैकालिकं-टीकात्रिकयुतम्
7
इत्याह-नरकोपमं-नरकतुल्यं ज्ञात्वा दुःखमुत्तमं प्रधानं, उक्तन्यायात्, यस्मादेवं रताऽरतविपाकः, तस्माद् रमेतासक्तिं कुर्यात्, क्वेत्याह-पर्याये उक्तस्वरूपे पंडितःशास्त्रार्थज्ञ इति ।। चू.१.११ । ।
३६८
धम्माउ भट्टं सिरिओ अवेयं, जन्नग्गिविज्झायमिवऽप्पतेयं । हीलंति णं दुव्विहियं कुसीलं, दादुद्धियं घोरविसं व नागं ।।चू.१.१२।।
(ति.) पर्यायच्युतस्यैहिकं दोषमाह - धर्माद् भ्रष्टम् उत्प्रव्रजितम् । श्रियोऽपेतम्अपगतश्रीकम् । यज्ञाग्निमिव यज्ञावसानविध्यातम् । अल्पतेजसं, अल्पशब्दोऽभाववचनः, निस्तेजसं भस्मप्रायमित्यर्थः । उद्धृतदाढं घोरविषं नागमिव । एवं दुर्विहितम्दुष्टानुष्ठानम् । कुशीलं हीलयन्ति-अवज्ञया परिहरन्ति ।।चू.१.१२।।
(स.) अथ चारित्रभ्रष्टस्येहलोकसम्बन्धिदोषमाह - धम्मा... .. इति-कुशीलास्तत्सङ्गोचिता लोका, एनमुन्निष्क्रान्तं हीलयन्ति 'पतितस्त्वमिति, पङ्क्तितोऽपसारणादिना कदर्थयन्ति, किम्भूतमेनं ? धर्मात् साधुधर्माद् भ्रष्टं च्युतं पुनः किम्भूतमेनं ? श्रिया अपेतं लक्ष्म्या वर्जितं, कमिव हीलयन्ति ? यज्ञाग्निमग्निष्टोमाद्यनलं, विध्यातमिव यागप्रान्ते, अल्पतेजसम्, अल्पशब्दस्याभाववाचित्वात्, तेजःशून्यं भस्मसदृशमित्यर्थः, किम्भूतमेनं? दुर्विहितम्, उन्निष्क्रमणादेव दुष्टानुष्ठायिनं पुनः कमिव हीलयन्ति ? उद्धतदंष्ट्रमुत्खात-दाढं घोरविषमिव रौद्रविषमिव नागं सर्पम्. । । चू. १.१२ । ।
(सु.) पर्यायच्युतस्यैहिकं दोषमाह - धम्माउ इति, धर्म्मात् श्रमणधर्माद् भ्रष्टंच्युतं श्रियोऽपेतं तपोलक्ष्म्या अपगतं यज्ञाग्निमग्निष्टोमाद्यनलं विध्यातमिव यागावसानेऽल्पतेजसं, अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः, हीलयन्तिकदर्थयन्ति ‘पतितस्त्वम्' इति पङ्क्त्यपसारणादिना, एनं - उन्निष्क्रान्तं दुर्विहितमुन्निष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलाः, तत्संयोगो ( सङ्गो) चिता लोकाः, स एव विशेष्यते-दाढुड्ढिअं' इति, प्राकृतशैल्यादुद्धृतदंष्ट्रं - उत्खातदंष्ट्रं, घोरविषमिवरौद्रविषमिव, नागं सर्पं, यज्ञाग्नि - सर्पोपमानं लोकनीत्या प्रधानभावादप्रधानभावख्यापनार्थमिति ।।चू. १.१२ । ।
१. सुमति० वृत्तिग्रंथे 'दाढुढिअं' पाठो मूलत्वेन, विवृत्त श्च तथैव । चूर्णौ 'दादुद्धितं' पाठः ।