________________
१ चूलिका - रतिवाक्या
नाटकादिव्यापृताः सन्तोऽदीनमनसस्तिष्ठन्ति तथा सुसाधवोऽपि ततोऽधिकभावतः प्रत्युपेक्षणादि-क्रियाव्यापृता अदीनमनसस्तिष्ठन्ति कथम् ? उपादेयविशेषत्वात् प्रत्युपेक्षणादेः, तथा पर्यायेऽरतानाञ्च - भावतः सामाचार्यामसक्तानां चशब्दाद्विषयाभिलाषिणाञ्च, भगवल्लिङ्गविडम्बकानां क्षुद्रप्राणिनां पर्यायो महानरकसदृशो रौरवादितुल्यः, तत्कारणत्वान्मानस - दुःखातिरेकात्, तथा विडम्बनाच्चेति. ।। चू. १.१० ।।
३६७
(सु.) अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमाणो... इति, देवलोकसमानस्तु-देवलोकसदृश एव पर्यायः - प्रव्रज्यारूपो महर्षीणां - सुसाधूनां रतानां - सक्तानां, पर्याय एवेति गम्यते, तदुक्तं भवति, यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसः तिष्ठन्ति, एवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषतत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । अरतानां च भावतः सामाचार्यसक्तानां च चशब्दात् विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्त्वनां महानरकसदृशो - रौरवादितुल्यस्तत्कारणत्वान्मानस-दुःखातिरेकात् तथा विडम्बनाच्चेति । ।चू. १.१० ।।
अमरोवमं जाणिय सुक्खमुत्तमं रयाणं परियाइ तहारयाणं ।
नरओवमं जाणिय दुक्खमुत्तमं तम्हा रमिज्जा परियाइ पंडिए ।।चू. १.११।।
(ति.) एतदुपसंहारेणैव निगमयन्नाह - अमरोपमं ज्ञात्वा सौख्यमुत्तमं रतानां पर्यायेप्रव्रज्यारूपे । तथा अरतानां व्रतपर्याये नरकोपमं ज्ञात्वा दुःखमुत्तमम् । तस्मात् पण्डितः-सुख-दुःखज्ञः । प्रव्रज्यापर्याये रमेत । येन दिव्यसुखभागी भवति । ।चू. १.११ ।।
(स.) एतच्चोपसंहारेणैव निगमयन्नाह - अमर... इति-पण्डितः शास्त्रज्ञः, पर्याय उक्तरूपे संयमे रमेत सक्तिं कुर्यात्, किं कृत्वा ? अमरोपमं देवसदृशं सौख्यं प्रशमसौख्यं प्रशस्तं ज्ञात्वा विज्ञाय, केषामित्याह-पर्याये रतानां दीक्षायां सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाद्यङ्गे, पुनः किं कृत्वा ? पर्याय एवा - ऽरतानां नरकोपमं नरकतुल्यमुत्तमं प्रधानं दुःखं च ज्ञात्वा. ।।चू.१.११ ।।
(सु.) एतदुपसंहारेणैव निगमयन्नाह - अमर... इति, अमरोपमं उक्तन्यायाद् देवसदृशं ज्ञात्वा-विज्ञाय सौख्यमुत्तमं - प्रधानं प्रशमसौख्यं केषाम् ? - इत्याह-रतानां पर्यायेसक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्ग्ये श्रामण्ये, तथा अरतानां पर्याय एव, किम् ? -
I