________________
३६६
दशवैकालिकं-टीकात्रिकयुतम् व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कर्दमावमग्नो वनगज इव स पश्चात् परितप्यते'हा ! हा ! किं मयेदं असमञ्जसमनुष्ठितमिति ।।चू.१.८ ।।
अज्जं याहं गणी हुंतो, भावियप्पा बहुसुओ | जइ हं रमंतो परियाए, सामण्णे जिणदेसिए ।।चू.१.९।।
(ति.) कश्चन सचेतनत(न)रः परमेवं परितप्यते इत्याह-अद्ययावद् । अहं गणीआचार्यः । अभविष्यम् भावितात्मा-संवेगरङ्गरङ्गितात्मकः । बहुश्रुतः-सम्पूर्णागमः | यद्यहम् । अरमिष्ये । पर्याये श्रामण्ये-श्रमणसम्बन्धिनि । जिनदेशिते ।।चू.१.९ ।।
(स.) कश्चित सचेतनो नर एवं च परितप्यत इत्याह-अज्ज' इति-अहमद्य तावदस्मिन् दिवसे गणी स्यामाचार्यो भवेयं, यदि पर्याये प्रव्रज्यारूपेऽरमिष्यं रतिमकरिष्यम, किंविशिष्टे पर्याये ? श्रामण्ये श्रमणसम्बन्धिनि, पुनः किम्भूते ? जिनदेशिते तीर्थकरप्ररूपिते, न शाक्यादिरूपे, किम्भूतोऽहं ? भावितात्मा, प्रशस्तयोगभावनाभिर्भावित आत्मा यस्य सः, पुनः किम्भूतः ? बहुश्रुतः, उभयलोकहितबह्वागमयुक्त इति. ||चू.१.९।। . (सु.) कश्चित् सचेतनो नर एवं च परितप्यत इत्याह-अज्ज इति अद्य तावदहअद्य-अस्मिन् दिवसेऽहमित्यात्मनिर्देशे, गणी स्यां-आचार्यो भवेयं, भावितात्माप्रशस्तआगम(योग)भावनाभिः, बहुश्रुत-उभयलोकहित-बहवागमयुक्तः, यदि किं स्यात्? इत्याह-यदि अहमरमिष्यं-रतिमकरिष्यं, पर्याये-प्रव्रज्यारूपे, सोऽनेकभेद इत्याह-श्रामण्येश्रमणानां सम्बन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-जिनदेशिते-निर्ग्रन्थसम्बन्धिनीति ||चू.१.९।।
देवलोयसमाणो य, परियाओ महेसिणं । रयाणमरयाणं तु, महानरय॑सालिसो ||चू.१.१०।।
(ति.) अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-(देवलोय...इति) स्पष्टः | नवरम् । अरतानाम्-विषयाभिलाषिणाम् । पुनर्महानरकसदृशः-मानसदुःखातिरेकात् ||चू.१.१०।।
(स.) अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देव...इति-महर्षीणां सुसाधूनां पर्याये संयमे रतानामासक्तानां, पर्यायो देवलोकसमानः, अयमर्थः-यथा देवलोके देवा
१. 'सारिसो' इत्यपि मुद्रितमन्यत्र ।