________________
१ चूलिका - रतिवाक्या
३६५ (ति.) यदा च उत्प्रव्रजितस्य जातकुकुटुम्बस्य सम्बन्धिनीभिः कुतप्तिभिःआत्मपरसन्तापकारिणीभिः । विहन्यते-विषयभोगान् प्रति विघातं नीयते । कुटुम्बबन्धनेन बद्धः । उत्तरार्द्ध स्पष्टम् ।।चू.१.७।।
(स.) एतदेव स्पष्टयति-जया' इति-यदा च कुकुटुम्बस्य कुत्सितकुटुम्बस्य, कुतप्तिभिः कुत्सितचिन्ताभिरात्मनः सन्तापकारिणीभिः, विहन्यते विषयभोगान् प्रति विघातं नीयते, तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ? यथा हस्ती कुकुटुम्ब-बन्धनबद्धः परितप्यते.||चू.१.७।। ___ (सु.) एतदेव स्पष्टयति-जया य कुकुडुंबस्स' इत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य, कुतप्तिभिः-कुत्सितचिन्ताभिः, आत्मनः संतापकारिणीभिर्विहन्यते-विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुकुटुम्ब-बन्धनबद्धः परितप्यते ।।चू.१.७ ।।
पुत्त दारंपरिक्किन्नो, मोहसंताणसंतओ | पंकोसन्नो जहा नागो, स पच्छा परितप्पई ।।चू.१.८।।
(ति.) उत्प्रव्रजितो विषयासक्तः कलत्रपुत्रादिभिः, परि-समन्तात्, कीर्णो-विक्षिप्तः। मोहसन्तानसन्ततः-दर्शनमोहनीयकर्मप्रवाहेण व्याप्तः । पङ्कावसन्नो यथा नागः कर्दमावमग्नो वनगज इव । स पश्चात् परितप्यते 'हा हा किं मयेदमसमञ्जसं चेष्टितम्' इति ।।चू.१.८।।
(स.) पुनराह-पुत्त...इति-मुक्तसंयमः पश्चात् परितप्यते, हा हा किं मयेदमसमञ्जसमनुष्ठितं, किम्भूतः ? पुत्रदारपरिकीर्णः, विषयसेवनात् पुत्र-कलत्रादिभिः सर्वतो विक्षिप्तः पुनः किम्भूतः ? मोहसन्तानसन्ततो दर्शनमोहनीयादि-कर्मप्रवाहेण सन्तप्तः, क इव परितप्यते ? यथा नागो हस्ती पङ्कावसन्नः कर्दममग्नः सन् परितप्यते. ||चू.१.८।।
(सु.) एतदेव स्पष्टयति पुत्रदार...इति, पुत्र दारपरिकीर्णो-विषयसेक्नात् पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण
१. अन्यत्र 'परीकिन्नो', मुद्रितम् चूर्णौ अपि 'परिक्किण्णो' इति तद् सुष्ठु प्रतिभाति, यतः (ति) टीकायां 'परि कीर्णो इति विवृतम्, अन्यत्रा विवृतं तथैव ।