________________
३६४
दशवैकालिकं-टीकात्रिकयुतम् जया य माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठीव कब्बडे छूढो, स पच्छा परितप्पई ।।चू.१.५।। (ति.) माणिमः-मान्यः । कर्बटे-क्षुद्रसन्निवेशे ।।चू.१.५।।
(स.) जया' इति-यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः स्याच्छीलादिप्रभावेन, पश्चाच्छीलादि-परित्यागेनामान्यः स्यात्, किंवत् ? श्रेष्ठिवत् श्रेष्ठीव, यथा श्रेष्ठी कर्बटे क्षिप्तो महाक्षुद्रसन्निवेशे क्षिप्तोऽमान्यो भवति, पुनः पश्चात् परितप्यते, तद्वच्छीलादिपरित्याग्यपि. ।।चू.१.५।।.
(सु.) जया य' इति, यदा च मान्यो भवति अभ्युत्थाना-ऽऽज्ञाकरणादिना माननीयः शीलप्रभावेण, पश्चाद् भवत्यमान्यस्तत्परित्यागेन, तदा श्रेष्ठीव कर्बटे-महाक्षुद्रसन्निवेशे क्षिप्तोऽमात्यः स(पश्चात् परितप्यत, इति, एतत् समानं पूर्वेणेति ।।चू.१.५।।
जया य थेरओ होइ, समइक्कंतजुव्वणो । मच्छु व्व गलं गलित्ता, स पच्छा परितप्पई ||चू.१.६।।
(ति.) यदा च संयमं त्यक्त्वा भुक्तभोगः समतिक्रान्तयौवनः स्थविरो भवति । तदा वयःपरिणामे विपाककटवो भोगाः, इति चिन्तयन् मत्स्य इव | गलम्-बडिशम् । गिलित्वा कर्मलोहकण्टकविद्धः । स पश्चात् परितप्यते ।।चू.१.६ ।।
(स.) जया' इति-यदा च स्थविरो भवति मुक्तसंयमो वयसः परिणामेन, एतद्विशेषप्रदर्शनायाह-किम्भूतः स्थविरः ? समतिक्रान्तयौवन एकान्तस्थविरभावः, तदा भोगानां विपाककटुकत्वात् परितप्यते, क इव ? मत्स्य इव, यथा मत्स्यो बडिशं गिलित्वाभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् पश्चात् परितप्यत इति, एतदपि पूर्वेण समानम्. ||चू.१.६ ।।
(सु.) जया य' इति, यदा च स्थविरो भवति, स त्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रदर्शनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इति भावः, तदा विपाककटुकत्वाद् भोगानां, मत्स्य इव गलं-बडिशं, गिलित्वाऽभिगृह्य, तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात् परितप्यत इत्येतदपि समानं पूर्वेणेति ।।चू.१.६ ।।
जया य कुकुडुंबस्स, कुतत्तीहिं विहम्मई । हत्थी व बंधणे बद्धो, स पच्छा परितप्पई ।।चू.१.७।।