________________
१ चूलिका - रतिवाक्या
३६३ पतित इति भावः, क्ष्मा-भूमिः, सर्वधर्मपरिभ्रष्टः-सर्वधर्मेभ्यः-क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः-सर्वतश्च्युतः, स पतितो भूत्वा पश्चान्मनाग् मोहावसाने परितप्यते, 'किमिदमकार्यं मयानुष्ठितम्?इत्यनुतापं करोतीति ।।चू.१.२ ।।
जया य वंदिमो होइ, पच्छा होइ अवंदिमो | देवया व चुया ठाणा, स पच्छा परितप्पई ||चू १.३।।
(ति.) यदा प्रव्रजितः सन् वन्द्यो भवति । पश्चाद्-उत्प्रव्रजितः अवन्द्यः । शेषं स्पष्टम् ।।चू.१.३।।
(स.) जया ! इति-यदा च यः संयमवान् सन् नरेन्द्रादीनां वन्द्यो भवति, स पश्चादुन्निष्क्रान्तः संयमरहितः सन्नवन्द्यो भवति, पश्चात् स परितप्यते च, किंवत् ? स्थानच्युता सती इन्द्रवर्जा देवतेव, परितापार्थः पूर्ववत्. ।।चू.१.३।।
(स.) जया य'इति, यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां, पश्चाद् भवति उन्निष्क्रान्तः सन्नवन्धः, तदा देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती, स पश्चात् परितप्यते इति एतत् पूर्ववदेवेति ।।चू.१.३।।
जया य पूइमो होइ, पच्छा होइ अपूइमो । राया व रज्जपब्भट्ठो, स पच्छा परितप्पई ||चू.१.४।। (ति.) प्राग्वत् ।।चू.१.४।।
(स.) जया' इति-यदा च पूज्यो भवति लोकानां वस्त्रपात्रादिभिः, कुतः ? साधुधर्ममाहात्म्यात्, स उत्प्रव्रजितः सन्नपूज्यो भवति लोकानामेव, क इव ? राज्य (प्र) भ्रष्टो महतो भोगात्, वियुक्तो राजेवापूज्यो भवति, पुनः पश्चात् स परितप्यते च पूर्ववत्.||चू.१.४।।
(सु.) जया व'(अ) इति, यदा च पूज्यो भवति वस्त्रपात्रादिभिः श्रामण्यसामर्थ्याल्लोकानां, पश्चाद् भवत्युत्प्रव्रजितोऽपूज्यो लोकानामेव, तदा राजेव राज्यपदभ्रष्टो, महतो भोगाद् वियुक्तः (विप्रमुक्तः) स पश्चात् परितप्यत एवेति पूर्ववदेवेति ।।चू.१.४।।